________________
(३८७),
चतुर्थः काण्डः कलम्बिकायां रोहिण्यां, वर्षाभूमर्वयोरपि । कालजरो भैरवाद्रयोयोगिचक्रस्य मेलके ॥२४८ ॥ कादम्बरं दधिसारे, सीधुमद्यप्रभेदयोः । कादम्बरी कोकिलायां, वाणीशारिकयोरपि ॥ २४९ ॥ कुम्भकारः कुलाछे स्यात्, कुम्भकारी कुलत्थिका। कृष्णसारः शिंशपायां, मृगभेदे स्नुहितरौ ॥ २५० ।।
२४६ ॥ कर्णपूरः स्याच्छिरीषे नीलोत्पलावतंसयोः । को पूरयति' कर्णपूरः । शिरीषे पुसि । शेषयोः पुंक्लीबः । अवतंसे(वसन्ते) यथा आनन्दाय दृशः पुरो न विहितो नो कर्णपूरीकृतः । कटम्भरा प्रसारण्यां, गोलायां गजयोपिति ॥ कलम्बिकायां रोहिण्यां, वर्षाभूमर्वयोरपि । कटं विभर्ति कटम्भरा । भृवृजीति खः । (५-१-११२)। गोला गोदावरी । गजयोषित्करेणुका । शेषा ओषधयः ॥ २५७ ॥ काळजरो भैरवाद्रयोर्योंगिचक्रस्य मेळके । कालेन जीयति कालञ्जरः, पृषोदरादित्वात् । भैरवस्तीर्थविशेषः । अद्रौ यथा-मृगाः कालञ्जरे गिरौ ॥ २४८॥ कादम्बरं दघिसारे सीधुमधप्रभेदयोः । कुत्सिताम्बरस्य नीलवासस इदं कादम्बरं, स्त्रीक्लीबः । दधिसारो दध्यग्रम् । सीधुमद्यप्रभेदयोर्यथा-पापाः कादम्बरीपानविवसीकृतचेतसः जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् । कादम्बरी कोकिलायां, वाणीशारिकयोरपि । कादम्बवद्राजते कादम्बरी, क्वचिदिति डे। गौरादित्त्वाड्डीः ॥२४९॥ कुम्भकारः कुलाले स्यात् । कुम्भं करोति कुम्भकारः । कुम्भकारी कुलस्थिका । कुलस्थिका चक्षुषानामौषधम् । कृष्णसारः शिंशपायां, मृगभेदे स्नुहितरौ । कृष्णश्चासौ सारश्च कृष्णसारः। मृगभेदे यथा-शृङ्गेण संस्पर्शन(संस्पर्शनि)मीलिताक्षी मृगीमकण्डूयत कृष्णसारः । शबलेपि यथा-पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णसारप्रभाणां ॥ २५० ॥ गिरिसारः पुनर्लोहे, लिङ्गे मलयपर्वते । गिरेगिरिषु वा सारो गिरिसारः । लिङ्गे शिवलिङ्गभेदे । लोहे क्लीबे इति लिङ्ग