________________
(३८६)
अनेकार्थसंग्रह; सटीकः :: द्वितीयो विभागः
औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्म्मकरी तु विम्बिका ॥ २४४ ॥ मूव च कर्णिकारस्तु, कृतमाले द्रुमोत्पले । करवीरो हयमारे, कृपाणे दैत्यभिद्यपि ।। २४५ ।। करवीरी तु पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे, पीतमुण्डकरजयोः ॥ २४६ ॥ कर्णपूरः स्याच्छिरीषे, नीलोत्पलावतन्सयोः । कटम्भरा प्रसारण्यां, गोलायां गजयोषिति ॥ २४७ ॥
पुंक्लीबः । रहसि यथा-उपह्वरे गिरीणां च, नदीनां सङ्गमे तथा । सन्निधौ यथा - उपहृरे पुण्यतमेंशुमत्याः । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः । उत्कृष्टो दन्तुरः उद्दन्तुरः, वाच्यलिङ्गः । उत्तुङ्ग उन्नतः । उत्कटदन्त उत्कटदशनः ॥ २४३ ॥ औदुम्बरो यमे रोगभेदे । उदुम्बरस्यायमौदुम्बरः । यमः कृतान्तः । कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च । कर्म्म करोति कर्मकरः । भृतौ कर्म्मणः इति टः । ( ५-१-१०४) अन्तको यमः भृतिजीवी भाटकजीवी । भृत्यः पदातिः । अनयोर्वाच्यलिङ्गः, तयोर्यथा - यस्तवेह सवनेन भूपतिः कर्म्म कर्म्मकरवत् करिष्यति । कर्म्मकरी तु बिम्बिका मूर्व्वा च । बिम्बिका तुण्डिका मूर्ध्ना ज्या हेतुस्तृणविशेषः ॥ २४४ ॥ कर्णिकारस्तु | कृतमाले द्रुमोत्पले कर्णिकामियर्त्ति कर्णिकारः । कृतमालद्मोत्पलौ वृक्षौ । द्वयोर्यथा - वर्णप्रकर्षे सति कर्णिकारं । करवीरो हमारे कृपाणे दैत्यभिद्यपि । किरति करवीरः । जम्बीरेति साधुः ॥ (उ. ४२२ ) || हयमारे यथा- पूजां विधाय विभवे करवीरपुष्पैः । श्मशानेऽपि यथा - वीरास्ते करवीरवीरवर्त्मनि सदा भ्राम्यन्ति मत्ता इव ॥ २४५ ॥ करवीरी तु पुत्रवत्यां सद्गव्यामदितावपि । करे वीरो अस्याः करबीरी। गौरादिस्वाद्ङीः । कलिकारस्तु धूम्याटे पीतमुण्डकरब्जयोः । कलिं करोति कलिकारः । धूम्याटपीतमुण्डौ जीवविशेषौ । करञ्जो वृक्षः ॥
|