________________
चतुर्थः काण्डः
आत्मवीरो बलवति श्यालपुत्रे विदूषके । आडम्बरस्तु संरम्भे, बृहिते तूर्यनिस्वने ॥ २४० ॥
इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकार स्तूपकृतौ, विकीर्णकुसुमादिषु ॥ २४९ ॥
उपचारस्तु लञ्चायां, व्यवहारोपचर्ययोः । उदुम्बरः कुष्टभेदे, देहल्यां पण्डके तरौ ।। २४२ ॥ उदुम्बरं ताम्र, उपहरं रहसि सन्निधौ । उद्दन्तुरः कराळे स्यादुत्तुङ्गोत्कटदन्तयोः ॥ २४३ ॥
(३८५)
।
आडम्बरः, "जठरेति साधु " । पुंक्लीवः । संरम्भे यथा - यदपि च प्रोद्दामसौदामनीदामाडम्बरमम्बरे विरचितम् । बृंहितं गजगर्जितम् । तत्र तूर्यनिस्वने च यथा - साडम्बरा समरभूर्भयदायिनी सा ॥ २४० ॥ इ (ई) न्दीवरं नीलोत्पलम् | इन्दति श्रिया इन्दीवरम् । ' तीवरेति साधुः' यथा - नीलेन्दीवरशङ्कया नयनयेाः । इन्दीवरा शतावरी । शतावरी ओषधीभेदः, इन्दीवरोत्यमरः । उपकारस्तूपकृतौ, विकीर्णकुसुमादिषु । उपक्रियते उपकारः । उपकृतौ यथा - परोपकारः पुण्याय पापाय परपडनीम् । विकीर्णकुसुमादिषु यथा - तस्योपकार्या रचितोपकारा ।। २४१ ।। उपचारस्तु लञ्चायां व्यवहारोपचर्ययोः । उपचर्यते उपचारः । लञ्चायां यथा - उपचारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । व्यवहारे यथातयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः । उपचर्यायां यथासोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन । आरोपेऽपि यथा—उपचारपदं न चेदिदं त्वमनभरङ्गः कथमक्षत्ता रतिः । उदुम्बरः कुष्ठभेदे, देहल्यां पण्डके तरौ । उनत्ति उदुम्बरः । तीवरेति साधुः (उ. ४४४) । देहल्यां द्वाराघोदारुणि यथा-द्वारोदुम्बरलग्नमूर्तिभिरिदं धूत्तै गृहं गम्यते । पण्डकः क्लीबः । तरौ यथा - शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥२४२॥ उदुम्बरं ताम्रे । ताम्रं शुल्वम् । उपहरं रहसि सन्निधौ । उपहरति उपहरं ।
T