________________
(३८४) कनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
अवतारस्तु नद्यदितीर्थेऽवतरणेऽपि च । अग्निहोत्रेऽनले हव्येऽसिपत्रो नरकान्तरे ॥ २३८ ॥ कोशकारेऽर्द्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः। . चन्द्रके बाणभेदे चार्द्धचन्द्रा त्रिवृताभिदि ॥ २३९ ॥
अकूपारः कूर्मराजसमुद्रयोः । न कुं पिपर्त्ति अकूपारः, बाहुलकादीर्घः । न कूपमियति वा । समुद्रे यथा-तूर्ये युगक्षयक्षुभ्यदकूपारानुकारिणी ॥२३७॥ अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अवतरत्यनेन अवतारः । अवात् तृस्तृभ्यामिति घञ् । अवतरणं वा भावेऽपि मतांतरेण घञ् । नद्यादितीर्थे यथा-रुद्धे गजेन सरितः स रुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौषः । अवतरणे यथा-सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टनीभिः । अग्निहोत्रोऽनले हव्ये । हूयते होत्रा यामेति त्रः । अग्निश्वासौ होत्रश्च, अग्नौ होत्र इति वा । द्वयोयथा-अग्निहोत्रफला वेदाः । असिपत्रो नरकान्तरे । कोशकारे। असिरूपाणि पत्राण्यत्र असिपत्रः । नरकान्तरे यथा-निर्वाणसिद्धिरसिकाः सुधियस्त्यजन्ति । राज्यं विसर्पदसिपत्रवनं क्रमेण ॥ २३८ ॥ कोशकार इक्षुभेदः । अर्द्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः चन्द्रके बाणभेदे च । अर्द्धचन्द्रस्य अर्द्धचन्द्रः जु(क्षु)रत्यादिभिरिति समासः । गलहस्तेन्दुखण्डयोथा-इत्थं सर्वं भवदनुगामादोश्वरत्वं मयाप्तमद्यापि त्वं मम नरपते नाद्धचन्द्रं ददासि । चन्द्रको मेचकः । बाणभेदे यथाउत्प्लुत्यारार्द्धचन्द्रावलूने । नखक्षतविशेषेऽपि । यथा--योऽर्द्धचन्द्रसदृशाकृतिवक्रः सोऽर्द्धचन्द्र इति नाम नखांकः । दीयते मदनशास्त्रविदग्धैः कण्ठदेशकुचकुम्भयुगेषु ॥ . . अर्द्धचन्द्रा त्रिवृताभिदि । अर्द्धचन्द्राकारपत्रयुक्तत्त्वादर्द्धचन्द्रा । त्रिवृताभिदोषधिभेदः ।। २३९ ॥ आत्मवीरो बलवति श्यालपुत्रे विदूषके । आत्मना वीरः आत्मवीरः । आडम्बरस्तु संरम्भे बृहिते तूर्यनिस्वने । आदम्यते