________________
(३८३)
चतुर्थः काण्डः अश्वतरो नागभेदे, वेसरेऽनुत्तरः पुनः । निरुत्तरे च श्रेष्ठे चावस्करो गूथ गुह्ययोः ॥ २३५ ।। अभिहारः सन्नहने, चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचोरयोः ।। २३६ ॥ निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु ।। उपमादावकूपारः, कूर्मराजसमुद्रयोः ।। २३७ ॥
तरः। “वसोक्षेति तरट” ७।३।५१ । अश्वं तरति वा, लिहायच् ।५।१।५०। नागभेदः, सर्पभेदः । वेसरे यथा-दुर्वचनमनभिजाताः सुजनं प्रत्युत्सृजन्त्युपेत्यापि, अश्वतरास्तम्भसि दूरादागत्य मेहन्ति । अनुत्तरः पुनः, निरुत्तरे च श्रेष्ठे च । नास्त्युत्तरमस्य अनुत्तरः, वाच्यलिङ्गः । निरुत्तरे यथा-अनुत्तरं सोऽपि चकार दूतम् । श्रेष्ठे यथा-अनुत्तरं मन्दिरमुत्तरन्ती। अवस्करो गृथगुह्ययोः । अवकीर्यते अवस्करः । वच्चस्क्वादिष्ववस्कारादय इति साधुः । गुह्यं ज्यादिव्यंजनम् । द्वयोर्यथा-धिक तानवस्करनिमग्नतनून् कृमीणां, साम्यं भजन्ति सतताधमवृत्तयो ये ॥ २३५ ॥ अभिहारः सन्नहने चौरिकोद्यमयोरपि । अभिहरणं अभिहारः । सन्नहने यथा-भवशत्रुपराजयाय धीरैरभिहार: प्रकटीक्रियेत यः । चौरिकायां यथा-रात्रौ ताः सुरताभिहारचतुरा गच्छन्ति पत्युगुहात् । उद्यमे यथा-ते मोक्षमार्गपरिमर्शकृताभिहाराः । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः । निमन्त्रणोपनेतव्ये । अवहियते अवहारः, ग्राहचौरयोस्त्ववहरतीति अवहारः । अवहसा संस्रोरिति णः ।५।१।६३। युद्धादिविश्रान्तौ यथा-युद्धावहारकरणप्रवणोऽपि वीरः । आदिशब्दाछूतादिविश्रान्तावपि ॥२३६॥ निमन्त्रणोपनेतव्यं शर्करादिस्वादुकृतं भक्ष्यम् , तत्र यथा-एतस्मिन् विषयावहारविषमे संसारवारांनिधौ । अलङ्कारः कङ्कणादिषु, उपमादौ । अलंक्रियते अनेन अलङ्कारः । “बाहुलकाद्घञ्" । द्वयोर्यथा-श्लेषालङ्कारभाजोऽपि रसानिष्पंदकर्कशाः ! दुर्भगा इव कामिन्यः प्रीणन्ति न मनो गिरः॥