________________
(३८२)
अनेकार्थसंग्रहः सटीकः । द्वितीयो विभाग आपद्युत्तरकाले च, स्यात्समाहय आहवे । पशुभिः पक्षिभिर्दू ते, स्थलोचयो वरण्डके ॥२३२ ॥ गजानां मध्यमगते, मण्डाश्माकान्योरपि । हिरण्मयो लोकधातो, सौवर्णेऽभिमरो वधे ॥२३३ ॥ स्वबलात् साध्वंसे युद्धेऽवसरो वत्सरे क्षणे। अरुष्कर व्रणरे भल्लातकफलेऽपि च ॥२३४ ॥
यथा-तुमुलो बभूव समाह्वयोस्तयोः । पशुभिः पक्षिभिडूंते यथा-धिक तं येन समाहृयेषु निधनं, नीता निजश्रीर्बलात् । स्थूलोच्चयो वरण्डके । गजानां मध्यमगते, गण्डाश्माकात्य॑योरपि (कास्नयोरषि) । उच्चीयते , उच्चयः, स्थूल उच्चयः स्थूलोच्चयः ॥२३२॥ गजानां मध्यमगते यथा-स्थूलोंच्चये नागमदंतिकागतां गजोऽग्रजाताग्रकरः करेणुकाम् । अकात्स्न्ये यथा-निर्णीतमाप्तादवगत्य किश्चित् स्थूलोच्चयेनेदमियत्प्रमेयम् । हिरण्मयो लोकधातौ सौवर्णे । हिरण्यस्य विकारो हिरण्मयः । “अभक्ष्याच्छादन इति मयटि" ६।२।४६॥ "सारवैश्वाकेति साधुः" ७।४।३०। लोकधातुर्मेरोरुत्तरेण क्षेत्रविशेषः । सुवर्णस्य विकारः सौवर्णस्तत्र वाच्यलिङ्गस्तत्र यथा-हिरण्मयोर्वीरुहवल्लितत्तुभिः । अथ रान्ता अभिमरो वधे । स्वबलात्साध्वसे युद्ध : 'मृशहिसायाम् । अभिमरणं भभिमरः, अल्, अभिनियन्तेऽस्मिन् वा घः ॥ २,३३ ।। स्वबलात् स्वसैन्यात् । साध्वसे युद्धे च यथा-अभिमरसमये निजप्रतापो भवति नृपस्य जयाय हेतु रेकः । अवसरो वल्सरे क्षणे । अवसरन्त्यत्र अक्सरः । क्षणे यथा-शशंस सेवावसरं सुरेभ्यः । अरुष्करं व्रगकरे भल्लातकफलेऽपि च । अरुः करोति अरुष्करं । संख्याहर्दि वा टः ५।१।१०२ । समासेऽसमस्तस्येति षत्वम् । २।३।१३ । व्रणकरे वाच्यलिङ्गः । तत्र यथा-गाढारुष्करदीर्घदुःखपटलीलीनं मनो मामकं, त्वं चेत्संश्रयसे न रक्षसि च तत्तेनात्र नः कौतुकम् ॥ २३४ ॥ अश्वतरो नागभेदे वेसरे । अश्व इव तरति अश्वतरः, हसितो वा अधोय