________________
(३८१)
चतुर्थः काण्डः पद्मरागमणौ मार्जालीयः शूषिडालयोः । शरीरशोधने रौहिणेयो वत्से बुधे बले ॥ २३० ॥ समुच्छ्यो वैरोन्नत्योः , समुदाये गणे रणे। समुदयस्तूद्गमेऽपि, सम्परायस्तु संयुगे ॥ २३१॥
पद्मरागमणौ । महान् मूल्यमस्य महामूल्यं, महाघके वाच्यलिङ्गः । तत्र यथामहामूल्यानि वासांसि ॥२२९॥ मार्जालीयः शूदबिडालयोः। शरीरशोधने मार्टि मार्जालीयः । मृजेर्णालीयः । रौहिणेयो वत्से बुधे बले । रोहिण्या अपत्यं रौहिणेयः । वत्से, चतुष्पाद्य एयञ् ।६।१।८३ । बुधे । झ्याप्त्यूडः इत्येयण् ।६।१।७० । बलभद्रमातृवाचका तु मानुषीनामाणपवादः, शुभ्राद्येयण् । ६१।७३। बुधे यथा-रोहिणेयसहिताः शुभग्रहाः। बले बलभद्रे यथा-यां रेवतीजानिरियेष हातुं, न रौहिणेयो न च रोहिणीशः ॥२३०॥ समुच्छ्यो वैरोन्नत्योः । समुच्छ्यणं समुच्छ्रयः । वरे यथा स्फुर्जत्समुच्छ्रयशताकुलिता न जातु संचिन्तयन्ति कुशलं मम वैरिणोऽमी । उन्नतौ यथा-सवें क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । समुदायो गणे रणे। समुद्यन्तेऽत्र समुदायनं वा समुदायः । गणे यथा-बहूनामप्यसाराणां समुदायो हि दुर्जयः । रणे यथा-सह मित्रकुलेन भूपतिः समुदायं तव संप्रतीक्षते । समुदयस्तूगमेऽपि । समुदयनं समुदयः । अपि शब्दाद्गणे रणेऽपि । उद्गमे यथा-ज्योतिषां समुदये समाहितः । गणे यथा-न हि भीरुगतं निवर्तते समुदयमात्रमिदं कलेवरम् । रणे यथा-समुदयोदयभाजि धराधिपे त्वयि विभो भजति श्रियमुन्नतिः । सम्परायस्तु संयुगे। आपधुत्तरकाले च । सम्परायन्ति अत्र भटा इति सम्यग् परैरय्यत्ते वा सम्परायः । संयुगे पुंक्लीवः । तत्र यथा - कुर्वाणानां सम्परायान्तरायं भूरेणूनां मृत्युनामार्जनाय ॥ २३१ ॥ उत्तरकाले यथा-नृपतेः कर्म कर्त्तव्यं सर्वदा साम्परायिकम् । स्यात्समायः आहवे । पशुभिः पक्षिभिधूते । संघर्षणायन्तेऽत्र समायः। 'हृसमाह्वयेति साधुः' (५-३-४१)। आहवे