________________
(३८०) अनेकार्थसंग्रह; सटीक द्वितीयो विभागः
पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च, फलोदयो धुलामयोः ॥ २२७॥ बिलेशयो मूषिकेऽहौ, भागधेयः पुनः करे । दायादे मागधेयन्तु. भाग्ये महालयः पुनः ॥ २२८ ॥ तीर्थे विहारपरमात्मनोमहोदयं पुरे । : महोदयः स्वाम्यमुक्त्योर्महामूल्यं महाके ॥ २२९ ॥
काशः । दामोदरशंखे यथा-मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पांचजन्यः ।। २२६ ॥ पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च । “पुरुषात् कृतहितवधविकारे चैयञित्येयजि (६।२।२९) । पौरुषेयं । समूहे क्लीबे शेषेषु वाच्यलिङ्गः । कृते यथा अपौरुषेयं वचनमसम्भवि(वति) । हिते यथा-यत्पौरुषेयं वचनं तदेव । वधे यथा योऽपौरुषेयेण वधेन नाशं नीतो न शोच्यः सुहृदा स बन्धुः । समूहे यथा-एकाकिनोऽपि परितः पौरुषेयवृता इव । विकारे यथा-पौरुषेया सृजालि पू: । फलोदयो धुलाभयोः । फलस्योदयो यस्मात् फलस्योदय इति फलोदयः । दिवि स्वर्गे, लाभे प्राप्तौ च यथा-फलोदयो निष्फल एव तस्य ॥ २२७ ।। विलेशयो मूषिके हौ। बिले शेते बिलेशयः । “आधारादित्यः" ५।१।१३७ । शयवासीत्यलुपू ।३।२।२५। भागधेयः पुनः करे । दायादे । भाग एव भागधेयः, नामरूपभागाद्धेयः । भागीयते वा, य एच्चातः । करे राजग्राह्यो भागः । तत्र स्त्रीपुंसः । तत्र यथा-शक्तिः कल्पितभागधेयहरणे राज्ञो न संरक्षणे । भा(भो)गेऽपि यथाकालोपपन्नातिथिभागधेयं, वन्यं शरीरस्थितिसाधनं वः । भागधेयं तु भाग्ये । यथा -भागधेयपरिपाकहेतुकः, प्राप्यते हि सुखदुःखसङ्गमः । महालयः(यं) पुनः तीर्ये विहारपरमात्मनोः । महान् आलयो महालयः ॥२२८॥ महोदयं पुरे। महान् उदयो यत्र महोदयं, स्त्रीक्लीवः । पुरं कन्यकुब्जं । महोदयः स्वाम्यमुक्त्योः । द्वयोर्यथा-स्पृहयति सदयो महोदयाय । महामूल्यं महाके ।