________________
चतुर्थः काण्ड::.. (३७९) तृणशूल्यं मरिसकायां केतकीशाखिनः फले । धनन्जयो नागभेदे ककुभे देहमारुते ॥ २२४ ॥ पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये । प्रतिभयं भये भीष्मे, प्रतिश्रयः सभौकसोः ॥ २२५॥ परिधायः परिको, जलस्थाननितम्बयोः ।
पाश्चजन्यः पोटगले, शंखे दामोदरस्य च ॥ २२६॥ यथा-लतां पुष्पवती स्पृष्ट्वा कृतस्नानो जलाशये । तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः । तण्डुलेभ्यो हितस्तण्डुलीयः । “तस्मै हिते इति" या सडते घी, गयहृदयेति, साधुः (उ. ३७०) । ताप्यो विष्टमाक्षिकः ॥ २:२३ ॥ तृणमूल्यं मल्लिकायां केतकीशाखिनः फले । तुणैः शूल्यते, ध्यण, nिe शूल्यं । धनञ्जयो नागभेदे ककुभे देहमारुते । पार्थेऽग्नौ । धन जयति धनञ्जयः । "भृवृजीति खः” (५-१-११२)। नागभेदः सर्पभेदः । ककुभो ऽर्जुनतरुः ॥ २२४ ॥ पार्थे यथा-आदित्यमिव दुष्प्रेक्ष्यं, समुद्रमिव दुस्तरम् वेदार्थमिव दुर्बोधं पश्य कर्ण धनञ्जयम् ।। अग्नौ यथा-दीप्तो धनञ्जय इवाश्रु ददाह मोहं । निरामयस्तु स्यादिडिक्के गतामये । निर्गत आमयोऽस्य निरामयः । इडिक्कः शिशुवाहकः । गतामये वाच्यलिङ्गः । तत्र यथा-सवें सन्तु निरामयाः । प्रतिभयं भये. भीष्मे । प्रति भीतिः, प्रति भय, प्रतिगत भयेन वा । भये यथा-प्रतिभयचलितांगसन्धिबन्धः । भीष्मे भयङ्करे वाच्यः लिङ्गः । तत्र यथा-भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे । प्रतिश्रियः सभौकसोः । प्रति श्रीयते प्रतिश्रयः । द्वयोर्यथा-दिव्यं प्रतिश्रयमवाप्यगुणप्रकाशं सम्प्राप्तवान्ननु गुणोक्तिविशारदः सः ॥ २२५ । परिधायः परिकरे जलस्थाननितम्बयोः । परिधीयते परिधायः । घञ् परिकरः परिच्छदः । पाञ्चजन्यः पोटगळे शंखे दामोदरस्य च । पंचजने पाताले भवः । पाञ्चजन्यः । “गम्भीरपञ्चज़नि बहिर्देवादितिभ्यः (६-३-१३५) । पोटगलः