________________
(४०९)
चतुर्थः काण्डः दशग्रीवकृपाणे च तामरसं तु पङ्कजे । ताम्रकांचनयोः दिव्यचक्षुस्त्वन्धे सुलोचने ॥३२८॥ सुगन्धभेदे च निश्रेयसं कल्याणमोक्षयोः । नीलजसा नदीभेदेऽप्सरोभेदे तडित्यपि ॥३२९॥ पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि । पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा ॥३३०॥ मलीमसं पुनः पुष्पकासीसे मलिनायसोः । महारसः पुनरिक्षौ खरद्रौ कसेरुणि ॥३३१॥
यथा-बद्धस्पर्द्धस्तव परशुना लजते चन्द्रहासः । तामरसं तु पङ्कजे । ताम्रकाञ्चनयोः। ताम्यति तामरसम् । केनेति (३-४-३३) साधुः । त्रिष्वपि यथाअनवरतममन्दरागतामरससदृशः । दिव्यचक्षुस्त्वन्वे सुलोचने । सुगन्धभेदे च। दिव्यं चक्षुरस्य दिव्यचक्षुः । अन्धसुलोचनयोर्वाच्यलिङ्गः। सुलोचने यथाचर्मचक्षुर्जनः सर्वः कवयो दिव्यचक्षुषः।।३२८॥ निःश्रेयसं कल्याणमोक्षयोः। निश्चितं श्रेयः निःश्रेयसम् । निसश्च श्रेयस इति अत्समासान्तः। द्वयोर्यथानिःश्रेयसाय स श्रीमान् श्रीकण्ठो वः प्रकल्पताम् । नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि। नीलं जस्यति नीलंजसा। बाहुलकात् खः । अप्सरोभेदे यथानीलंजसायाविलयात् ॥ ३२९॥ पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि । पुनर्वस्वस्य पुनर्वसुः । पुंसि । नक्षत्रे यथा-पुष्यपुनर्वसुरेवतिचित्रा । कात्यायनमुनिः वररुचिः । पौर्णमासो यागभेदे। पौर्णमास्यां भवः पौर्णमासः । “भर्तुसन्ध्यादेरण (६-३-८९) । यथा-पौर्णमासश्च दर्शश्च यज्ञो पक्षान्तयोः पृथक् । पौर्णमासी तु पूर्णिमा । पूर्णो मासश्चन्द्रोऽस्यामस्ति पौर्णमासी । पूर्णमासेऽण् । यथा-उदयति विततांशुः पौर्णमासी सुधांशुः ॥ ३३० ॥ मलीमसं पुनः पुष्पकासीसे मलिनायसोः। मलोऽस्यास्ति मलीमसं । “मलादिमसश्च (७-२-१४)। मलिने वाच्यलिङ्गः । तत्र यथा-क्षपातमस्काण्डमलीमसं नभः। महारसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि । महान् रसोऽस्य महारसः । कशेरु कन्द