________________
(४१०) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि । 'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥३३२॥ रासेरसो रससिद्धिबलौ शङ्गारहासयोः । षष्ठो जागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥३३३॥ निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे स्वःश्रेयसं सुखे ॥३३४॥ परानन्दे च भद्रे च सर्वरसस्तु धूणके ।
वाद्यभाण्डेऽवग्रहस्तु ज्ञानभेदे गजालिके ॥३३५॥ भेदः ।। ३३१ ॥ मधुरमा तु मूर्वायां द्राक्षादुग्धिकयोरपि । मधुवद्रसोऽस्या मधुरसा । मूर्वा ज्याहेतुस्तृणविशेषः । दुग्धिका ओषधिः । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे । राजा चासौ हंसश्च राजहंसः। त्रिष्वपि यथा-वर्षागम इव प्रवासितराजहंसः ॥ ३३२ ॥ रासेरसो रससिद्धबलौ शृङ्गारहासयोः । षष्ठीजागरके रासे गोष्ठयां । रासे रसोऽस्य रासेरसः । रस्यते वा । “फनसेति" (उ० ५७३) । साधुः । रससिद्धयर्थमुपहारो रससिद्धिबलिः । विश्वावसुः पुनः । निशि गन्धर्वभेदे च । विश्वं वस्वस्य विश्वावसुः । वसुराटोः (३-२-८१) इति दीर्घः । निशि स्त्रियां। गन्धर्वभेदे पुंसि । यद्वैजयन्ती-विश्वावसुस्तु गन्धर्वभेदे ना स्त्री पुनर्निशि । गन्धर्वभेदे यथा--विश्वावसुप्रागहरैः प्रवीणैः ॥ ३३३॥ विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे । विभैव वस्वस्य विभावसुः । पुंसि । सर्वेषु यथा-विभावसोर्विभा भाति तमस्तानवभाविनी। स्वःश्रेयसं मुखे । परानन्दे च भद्रे च । शोभनं श्रेयः स्वःश्रेयसम् । निसश्च श्रेयस (७-३-१२२) इत्यत्समासान्तः । त्रिष्वपि यथा-स्वःश्रेयातायास्तु वः ॥ ३३४ ॥ सर्वरसस्तु धृणके । वाद्यभाण्डे । सर्वे रसा अत्र सवरसः ।
॥ अथ हान्ताः ॥ अवग्रहस्तु ज्ञानभेदे गजालिके । प्रतिबन्धे वृष्टिरोधेऽपि । . अवगृह्यते अवग्रहः । ज्ञानभेदे यथा-अक्षार्थयोगे दर्शनान्तरमर्थग्रहणमवग्रहः ।
१. यमस्वसा तु कालिन्द्यां कपर्दिनः स्त्रियामपि । राज० ।