________________
(४११)
चतुर्थः काण्डः प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ॥३३६॥ तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्वमारके । अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने ॥ ३३७ ॥ बन्दयुपयोगयोश्चोपनाहो वीणानिबन्धने । वणालेपनपिण्डे च गन्धवहो मृगेऽनिले ॥ ३३८ ॥
गजालिके यथा-अवग्रहगृहीतोऽपि प्रभिन्नो नावरुध्यते ॥ ३३५ ॥ प्रतिबन्धे निषेधे यथा- एतस्ता निरवग्रहोगकरभोल्लीढावरूढाः पुरः । वृष्टिरोधे यथा-वृष्टिर्भवति सस्यानामवग्रह विशेषिणाम् । अभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणे । अभिग्रहणमभिग्रहः । गौरवाऽभियोगयोर्यथा-अभिग्रहेण विद्यार्थी कुर्वीताभिग्रहं गुरोः । अभिग्रहणे यथा-आसनाऽभिग्रहो भक्त्या । अवरोहस्तु लतोद्गमे । तरोरङ्गेऽवतरणेऽपि । अवरुह्यते अवरोहः । तरोरङ्गं शाखायाः स्कन्धादधः प्रदेशः ॥ ३३६ ॥ अवतरणे यथाआरोहमवरोहं च मुहुः सूदति कुर्वती । त्वदङ्गयष्टौ मदृष्टिर्निश्चलापि कपोयते । अश्वारोहोऽश्ववारके । अश्वमारोहति अश्वारोहः । यथा-अश्वारोहैर्विरहितमिदं वाहवृन्दं वृथैव । अश्वारोहाऽश्वगन्धायाम् । आशु आरोहति, अश्वारोहा । पृषोदरादित्वात् । अश्वगन्धा ओषधिः : उपग्रहोऽनुकूलने बंयुपयोगयोश्च । उपगृह्यते उपग्रहः ॥३३७॥ बन्दी हठाकृष्टा स्त्री । उपनाहो वीणानिबन्धने । व्रणालेपनपिण्डे च । उपनद्यतेऽनेन उपनाहः । 'व्यञ्जनाद् घञ् (५-३-१३२)। गन्धवहो मृगेऽनिले । गन्धं वहति गन्धवहः । लिहादित्वात् (५-३-५०) अच् । अनिले यथा-चन्दनगन्धवहोऽसौ सर्पति विध्यधराधरभूमेः ॥ ३३८ ॥ गन्धवहा तु नासायां । यथा-गन्धवहामपि धत्स्वसखि त्वं दुर्वह एष मम प्रतियाति । तमोपहो जिने रचौ चन्द्रेग्नो । तमोऽपहन्ति, तमोपहः । क्लेशा