________________
(४१२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
गन्धवहा तु नासायां तमोपहो जिने रवौ । चन्द्रेऽग्नी तनूरुहस्तु पुत्रे गरुति लाम्नि च ॥ ३३९ ।। प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे । क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि । ३४० ॥ परिग्रहः परिजने पन्यां स्वीकारमूलयोः ।
शापेऽथ परिवाहोऽम्बूच्छ्वासे राजाहवस्तुनि ॥ ३४१॥ दिभ्योऽपादिति (५-१-८१) डः । जिने यथा-तमश्छिन्द्यात्तमोपहः । रवौ यथा-खरकिरणनखरनिवहस्तमालमलिनात्मनामुपरि रोषात् । सिंह इव हास्तिकानां परिपतति (पतित) तमोपहस्तमसां । चन्द्रे यथा-तमोपहं प्रज्वलितं प्रदोषे स्तुवन्ति वैतानममी मनुष्याः । तनूरुहस्तु पुत्रे गरुति लोम्नि च । तन्वां रोहति तनूरुहः । गरुति लोम्नि च पुंक्लीबः । पुत्रे यथा-रवेस्तनूरुहं शनिं । गरुति पिच्छे यथा-अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहोकृतां । लोम्नि यथारुचिरचित्रतनूरुहशालिभिः ।। ३३९ ॥ प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे । क्रियाकारे दानद्रव्ये तद्गहे स्वीकृतावपि । प्रतिगृह्यते प्रतिग्रहः । सैन्यपृष्ठे यथा-सेनापतिः प्रतिग्रहस्थो योधानामुद्दीपनजयनप्रसारणापसारणवणादिशोधनादीनि यथाकालमाचरेत् । ग्रहभेदः प्रतिपक्षग्रहः । पतद्ग्रहः पित्तलादिमयं ताम्बूलप्रत्येषणादि भाण्डम् । क्रियायाः करणमारम्भः क्रियाकारः । तत्रयथा-विचार्योदर्कमार्येण कार्यः कार्यप्रतिग्रहः । दानद्रव्यं द्विजेभ्यो विधिवदेयम् । तद्ग्रहो दानद्रव्यग्रहः । तयो यथा-प्रतिग्रह समर्थोऽपि नाददोत प्रतिग्रहम् । अत्र हि प्रथमो द्विजकर्तृ के ग्रहणे । द्वितीयो विधिवद्देये । स्वीकृतौ यथा-चिन्तयन् परधनं प्रतिग्रहं भूभृदेष यदि तस्करोऽत्रकः ॥ ३४० ॥ परिग्रहः परिजने पत्न्यां स्वीकारमलयोः । शापे । परिगृह्यते परिग्रहः । परिजने यथा-दलयति कुलानि करिणां किं हरिणपरिग्रहः सिंहः । पन्त्यां यथा-निर्दिष्टां कुलपतिना सपर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । स्वीकारे यथा-गुरुवचनपरिग्रहो हि धर्मः । मूले आदौ यथा-शुद्धिर्दिव्यपरिग्रहा। शापे यथा-- परिचरितव्या