SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः (४१३) परिबईः परीवारे पार्थिवोचितवस्तुनि । पितामहः पद्मयोनौ जनके जनकस्य च ॥ ३४२ ॥ 'वरारोहो गजारोहे वरारोहा कटावपि । सर्वसहः सहिष्णौ स्यात्सर्वसहा पुनः क्षितौ ॥ ३४३ ।। इत्याचार्यश्रीहेमचन्द्रसूरीश्वरविरचितेऽनेकार्थसंग्रहे . चतुःस्वरकाण्डश्चतुर्थः ॥४॥ गुरवो न यथा हि परिग्रहाय कल्पन्ते । अथ परिवाहोऽम्बूछ्वासे राजाईवस्तुनि । पर्युह्यते परिवाहः । अम्बूछ्वासे यथा-तडागोदरसंस्थानां परिवाह इवाम्भसाम् ॥ ३४१ ॥ परिबईः परीवारे पार्थिवोचितवस्तुनि । परिबीते परिबर्हः । द्वयोंयथा-वेश्मानि रामः परिबहेवन्ति । पितामहः पद्मयोनौ जनके जनकस्य च । पितुः पिता पितामहः । पित्रोर्डी महट् (६-२-६३) इति डामहट् । पद्मयोनौ यथा-प्रणेमतुस्तौ पितरौ प्रजाना पद्मासनस्थाय पितामहाय । जनकस्य जनके यथा-पिता पितामहो भ्राता स्वकुल्यो जननी तथा ॥ ३४२ ॥ वरारोहो गजारोहे । वरमारोहति वरारोहः । वरारोहा कटावपि । वरमारोहणमस्याः, वरारोहा । यथा-किंकिणीकाणवाचाला वरारोहा मृगीदृशः । सर्वसहः सहिष्णौ स्यात् । सर्व सहते सव्वंसहः । सर्वात्सहश्चेति (५-१-११) खः । वाच्यलिङ्गः। यथा-मुनिरसि विरसानि ब्रूहि सर्वसहोऽस्मि । सर्वसहा पुनः क्षितौ । यथा-सर्बसहा भगवती तव जन्मभूमिः ॥ ३४३ ॥ इत्याचार्यश्रीहेमचन्द्रसूरीश्वरविरचितायामनेकार्थकैरवाकरकौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायां चतुःस्वरकाण्डश्चतुर्थः ॥४॥ १. महासहा स्यादम्लानकुसुमं मोषपण्यपि । वरारोहो० ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy