SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ॥अथ पञ्चमः काण्डः ॥ स्यादाच्छुरितकं हासनखघातविशेषयोः । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ॥१॥ द्वाःस्थे षिड्गे कवौ रङ्गाजीवेऽथ कटखादकः । खादके काचकलशे गालबलिपुष्टयोः ॥२॥ कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः । स्याद्गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ॥३॥ चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि । जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले ॥ ४ ॥ अहं । अथ पंचमं पंचस्वरं काण्डमारभ्यते । तत्रादौ कान्ताः । स्यादाच्छुरितकं हासनखघातविशेषयोः । आच्छुरणमाच्छुरितकम् । हासविशेषे सोत्प्रासहासे यथा-गौरीकृताच्छुरितकं रतये बभूव । नखघातविशेषे यथा-अङ्गुष्ठाग्रेण बुद्धैः कररहनिकरैर्यत्कृतं स्वल्परेखम् । देहे रोमांचकारि प्रभवति नितरां स्पर्शमात्राद्व्वेषु । तत्कर्त्तव्यं प्रवीणैरुरसिजयुगले मन्द-सीत्का रयुक्तम् । हन्वारन्ते च नाम्नाच्छुरितकमुदितं कामभोगप्रधानम् । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः। द्वाःस्थे पिड्गे कवौ रङ्गाजोवे । कक्षाया अवेक्षकः । कक्षावेक्षकः । वाच्यलिङ्गः ॥ १॥ अथ कटखादकः । खादके काचकलशे शगालबलिपुष्टयोः। कटं भृशं शवं वा खादति कटखादकः । खादके वाच्यलिङ्गः ॥ २ ॥ कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः । कृमीणां कण्टकं कृमिकण्टकम् । चित्रा ओषधिः । स्यागोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ! गोजागरोऽस्त्यत्र गोजागरिकम् । अतोऽनेकस्वरादितीकः । भक्ष्यकारके वाच्यलिङ्गः ॥३॥ चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि । चिलति चिलः। नाम्युपान्त्येति। (५-१-५४) कः । तं मीलयति-चिलमीलिका । १. उपकारिका पिष्टभेदोपकारेशवेश्मसु । कक्षा०
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy