________________
पञ्चमः काण्डः
* नवफलिका तु नवे नवरजः स्त्रियामपि । नागवारिको गणिस्थराजे राजेभहस्तिपे ॥ ५ ॥ चित्रमेखले गरुडेऽप्यथ स्याद्व्यवहारिका । लोकयात्रेदीवर्द्धनीध्वथ व्रीहिराजिकः ॥ ६ ॥ चीनान्ने कामलिकायामप्यथो शतपत्रिका | स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणौ ॥ ७ ॥ हेमपुष्पकरचम्पके हेमपुष्पिका यूथिका । मलिनमुखस्तु गोलाङ्गले प्रेतेऽनले खले ॥ ८ ॥
(४१५)
जलकरङ्कः स्यान्मेघे नालिकेरतरो : फले । शंखे । जलस्य करङ्को जलकरङ्कः || ४ || नवफलिका तु नवे नवरजः स्त्रियाम् । नवफलमेव नवं फलं यस्या वा नवफलिका । नागवारिको गणिस्थराजे राजेभहस्तिपे । चित्रमेखले गरुडेऽपि । नागान् वारयति नागवारिकः । कुशकेति साधुः । गणिस्थराजो वृक्षः || ५ || चित्रमेखलो मयूरः । अथ स्याद्व्यवहारिका । लोकयात्रेदीवर्द्धनीषु । व्यवहरति व्यवहारिका । वर्द्धनी सम्मार्जनी । अथ व्रीहिराजिक: चीनान्ने कामलिकायामपि । व्रीहिवद्राजयोऽस्य व्रीहिराजिकः॥६॥ कामलिका रोगविशेषः । अथो शतपत्रिका | स्याद्वचादुर्वयोः । शतं पर्व्वाण्यस्याः शतपविका । शीतचम्पकौ दीपतर्पणौ । शीतश्चासौ चम्पकश्च शीतचम्पकः । दीपे तर्पणे च ||७|| हेमपुष्पकश्चम्पके । हेमवर्णानि पुष्पाण्यस्य हेमपुष्पकः । यथा - मधौ वनं राजति हेमपुष्पकैः । हेमपुष्पिका यूथिका । पीतवर्णेति शेषः ॥ अथ खान्ताः । मलिनमुखस्तु गोलाङ्गूले प्रेतेऽनळे खले | मलिनं मुखमस्य मलिनमुखः । खले वाच्यलिङ्गः । गोलाङ्गूले यथा–मलिनमुखसहस्रैर्वेष्टयामास लङ्कां ॥ ८ ॥ शीतमयूखः कर्पूरे चन्द्रे |
1
* मु. मू.। शङ्खे जललतायाश्च जलनायको मत्स्यके । काकोच्यां राजशफरे नवफलिका नूतने । नवजातरजोना र्यामप्यथो नागवारिकः सुवसन्तक इत्येष वासन्य: मदनोत्सवे हेम०