SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ (४१६) अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः । विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् ॥९॥ कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ १० ॥ रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ । ऋषभध्वजः प्रथमजिनेन्द्र शशिशेखरे ॥ ११ ॥ शीता मयूखा अस्य शीतमयूखः । चन्द्रे यथा-सन्तोऽप्यसन्त इति चेत्प्रतिभान्ति भानो भासावृते नभसि शीतमयूखमूख्याः । अथ सर्वतोमुखः । विधावात्मनि रुद्रे च । सर्वतो मुखमस्य सर्वतोमुखः। विधौ ब्रह्मणि यथा-अथ सर्वस्य - धातारं सर्वे ते सर्वतोमुखम् । सर्वतोमुखमम्बु खम् ॥ ९ ॥ अम्बुनि यथाप्रभाते सोऽथ राजेन्द्रो वन्दित्वा सर्वतोमुखम् । खं व्योम ॥ ९ ॥ ॥अथ गान्ताः ।। कथाप्रसङ्गो वातूले विषस्य च चिकित्सके। कथायां प्रसङ्गोऽस्य कथाप्रसङ्गः । वाच्यलिङ्गः । विषयस्य चिकित्सके-यथा कथाप्रसङ्गेन जनैरूदाहृतादनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद्वयथते नताननः सुदुःसहान्मंत्रपदादिवोरगः । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके । नाड्यां तरङ्गा अस्य नाडीतरङ्गः । काकोलः काकः । रतहिण्डकः कामुकः । तत्र हिण्डके वाच्यलिङ्गः ॥ १० ॥ ॥ अथ चान्ताः ॥ रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ । रताय नारीमञ्चति रतनारीचः । अणि पृषोदरादित्वात् । ॥ अथ जान्तौ ॥ ऋषभध्वजः प्रथमजिनेन्द्र शशिशेखरे । ऋषभो ध्वजोऽस्य ऋषभध्वजः। द्वयोर्यथा-स श्रीमानृषभध्वजः प्रतिकलं स्वःश्रेयसायास्तु वः ॥११॥ मुनिभेषजं
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy