SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ पञ्चमः काण्डः (४१७) मुनिभेषजस्त्वगस्तिपथ्यायां लड्डनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि ॥ १२ ॥ अवग्रहणं रीढायां रोधनेऽथाऽवतारणम् । वस्त्राश्चलार्चने भूतावेशेऽथ पविदारणम् ।। १३ ।। दारणे युधि च परिभाषणं तु प्रजल्पने। नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः॥ १४ ॥ प्रासादवीथोवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णोऽरलुकशोणकयोः कपोतने ॥ १५ ॥ स्त्वस्तिपथ्यायां लड्डन्नेऽपि च । मुनीनां भेषजं मुनिभेषजम् । अगस्तिपथ्या हरीतकीभेदः। ॥ अथ दान्ताः ॥ दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि । दशनैरुच्छिष्टो दशनोच्छिष्टः । चुम्बने यथा-रेवती दशनोच्छिष्टपरिपूतपुटे दृशौ । दन्तवासा अधरः ॥ १२॥ ॥ अथ शान्ताः ॥ अवग्रहणं रीढायां रोषने । अवगृह्यते अवग्रहणं । रीढा अवज्ञा । अथाचतारणम् । वस्त्राश्चलार्चने भूनावेशे । अवतायते अवतारणम् । वस्त्रांचलाचने यथा-सामानिकादिदेवीभिः क्रियमाणोऽवतारणः । अथ प्रविदारणम् । दारणे युधि च । प्रविदार्यते प्रविदार्यतेऽस्मिन्वा प्रविदारणम् । द्वयोर्यथाबिभ्यति प्रविदारणात् ॥ १३ ॥ परिभाषणं तु मजल्पने । नियमे निन्दोपालम्भोक्तौ च । परिभाष्यते परिभाषणम् । निन्दायां उपालम्भस्योक्तिः । त्रिष्वपि यथा-बाला इव प्रवर्त्तन्ते कृतेऽपि परिभाषणे । अथो मत्तवारणः । प्रासादवीथोवरण्डे मतहस्तिन्यवाधये । मत्तान् वारयति मत्तवारणः ॥१४॥ अपाश्रयो गवाक्षः। त्रिवपि यथा-राजते राजवेश्मेदं सर्वतो मत्तवारणैः । मण्डूकपर्णोऽरलुकशोणकयोः कपीतने । मण्ड्कवत्पर्णान्यस्य मण्डूकपर्णः । त्रयोऽपि
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy