________________
(४१८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
मण्डूकपर्णी मन्जिष्ठात्रीह्यो!जिहिकौषधे । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके ॥१६॥ वातरायणः क्रकचे सायके शरसंक्रमे । निष्प्रयोजननरे चापि, (चाप्य) अवलोकितमीक्षिते ॥१७॥ 'अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हारे । अजितेऽपराजिता तु दुर्गा श्वेता जयन्त्यपि ॥ १८ ॥ उपधृपित आसनमरणे धूपितेऽपि च ।
स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ॥ १९ ॥ वृक्षाः। शोणकोऽरलुकभेदः ॥१५॥ मण्डूकपर्णी मनिष्ठात्रीह्यो!जिहिकौषधे । पाककर्णेति डीः । तिस्रोऽपि ओषधयः । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके। रोमाणि हर्षयति रोमहर्षणम् । रोमोद्गमे यथा-स्वेदबिन्दुततिलांछितालिकः सर्वतो विततरोमहर्षणः ॥ १६ ॥ वातरायणः क्रकचे सायके शरसंक्रमे । निष्प्रयोजननरे चापि । वातमियति वातरायणः । विदनगगनेति (उ. २७५) साधुः । सायको बाणः । शरसंक्रमः शरसेतुः ।
॥अथ तान्ताः ॥ अवलोकितमीक्षिते । अवलोक्यते अवलोकितम् । यथा- गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ १७ ॥ अवलोकितस्तु बुद्धे । बुद्धः सुगतविशेषः । अपराचितोऽच्युते हारे। अजिते । न पराजीयते अपराजितः । अजिते वाच्यलिङ्गः । त्रिष्वपि यथा-त्रिलोकी रक्षिता येन स जयत्यपराजितः । अपराजिता तु दुर्गा श्वेता जयन्त्यपि । दुर्गा चण्डी, श्वेता गिरिकर्णिका । जयन्ती ओषधिः ॥ १८ ॥ उपधुपित आसन्नमरणे धृपितेऽपि च । उपधूप्यते उपधूपितः । वाच्यलिङ्गः । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ। गणानामधिपतिर्गणाधिपतिः । विघ्ननायके यथा-सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः । पार्वतीपतौ यथा-कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमि
१. समुद्धरणं वान्तान्ने जलस्योद्धारणे प्रहे । अव०