________________
पञ्चमः काण्डः
पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधे । मू(भिषिक्तः प्रधानक्षत्रियक्षितिपालयोः॥ २० ॥ 'यादसांपतिः पाश्यब्ध्योः वसन्तद्त आम्रके। पिके पश्चमरागे वसन्तदूत्यति मुक्तके ॥ २१॥
रौघजट क्षणमभ्यपद्यत जनैषा गगनं गणाधिपतिमूर्त्तिरिति ॥१९॥ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधे । पृथिव्यां पतिः पृथिवीपतिः । भूपे यथा-स गण्डपाली बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः । मूर्दाभिषिक्तः प्रधानक्षत्रियक्षितिपालयोः। मूर्द्धन्यभिषिच्यते स्म मूर्द्राभिषिक्तः । त्रिष्वपि यथा-मूर्द्धाभिषिक्तशतसंश्रितपादपद्मः ॥ २०॥ यादसांपतिः पाश्यब्ध्योः । यादसां जलचराणां पतिर्यादसाम्पतिः । बाहुलकादलुप् । पार्श. वरुणः, द्वयोयथा-यादसांपतिरपारपयोभिः । वसन्तदूत आम्रके पिके पश्चमरागे।वसन्तस्य दूत इव वसन्तदूनः । त्रिष्वपि यथा-वसन्तदूतज्वरिता वियोगिनः । वसन्तदूत्यतिमुक्तके। पाटलायां । अतिमुक्तको माधवी ॥ २१ ॥
॥ अथ दान्तः॥ __ अथ सहस्रपादो यज्ञपुरुषे कारण्डसूर्ययोः । सहस्र पादाऽस्य सहस्रपादः । समासान्तविधेरनित्यत्वात्पाद्भावाभावः । सहस्र पद्यते वा कर्मणोऽण् । यज्ञपुरुषो विष्णुः । कारण्डः पक्षिभेदः । यज्ञपुरुषसूर्ययोर्यथा-नमः सहस्रपादाय तमःस्तोमविघातिने ।
॥ अथ धान्तः॥ योजनगन्धा व्यासमातरि । कस्तुरीशीतयोश्च । योजनगामी गन्धोऽस्या योजनगन्धा । व्यासमातरि यथा-तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि । तेन योजनगन्धेति नाम तस्याः प्रतिश्रुतम् ॥ २२ ॥
१. यादसांपतिरम्भोधौ प्रतीचोदिग्पतावपि ।