________________
(४२०) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः पाटलायामथ सहस्रपादो यज्ञपुरुषे । कारण्डसूर्ययोः योजनगन्धा व्यासमातरि ।। २२ ॥ कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ २३॥ अभिनिष्टानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने चान्तावसायी श्वपचे मुनी ॥ २४ ॥ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसम्पन्नं पर्याप्ते सत्कृतप्राप्तयोम॑ते ।। २५ ॥
॥अथ नान्ताः ॥ अतिसर्जनं वधदानयोः। अतिसृज्यते अतिसर्जनम् । वधे यथा-त्यजेप्राण्यतिसर्जनम् । दाने यथा-प्रार्थनार्थरहितं तदा भवदीयतामितिवचोऽतिसर्जने । अपवर्जन निर्वाणे परित्यागे विहायिते । अपवृज्यते अपवर्जनम् । निर्वाणे यथा-उद्यम्यते मुनिजनैरपवर्जनाय । परित्यागे यथा-विधेयं सर्वदा विज्ञैर्दुर्जनस्यापवर्जनम् । विहायितं दानं, तत्र यथा-भोगाद्धनं सफलयत्यपवर्जनाद्वा ।। २३ ॥ अभिनिष्टानस्तु वणे विसर्गे । अभि निष्टन्यते अभिनिष्टानः । कर्मणि घञ् । अभिनिष्टान इति षत्वं । वर्णोऽक्षरं, विसर्गस्तभेदो बिन्दुद्वयम् । तयोर्यथा- अश्वकण्ठेषु मण्यल्पोऽभिनिष्टानावलीनिभाः । अथानुवासनं स्नेहने धृपने च । अनुवास्यते अनुवासनम् । अन्तावसायी श्वपचे मुनौ । अन्तमवस्यति अन्तावसायी । नापितेऽपि । तत्र श्वपचे च यथा अन्तावशायिसंस्पर्श स्नानं नैमित्तिकं स्मृतम् । २४ ॥ स्यादुस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपस्पृश्यते उपस्पर्शनं यथा । स्नानाचमनयोर्यथा-कृतोपस्पर्शने शुचौ । स्पर्शेयथा-यूपोपस्पर्शने स्नानं । उपसम्पन्नं पर्याप्ते सत्कृतप्राप्तयोम ते । उपसम्पद्यते स्म उपसम्पन्नं । वाच्यलिङ्गः । चतुर्वपि यथा-उपसम्पन्नं पथिकैरुपसम्पन्नं निरीक्ष्य वियदत्रैः ।। २५ ।। कलानुनादी चटके चंचरीके कपिंजले ।