________________
पञ्चमः काण्डः
(४२१)
-
कलानुनादी चटके चश्चरीके कपिजले। गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके ।। २६॥ गन्धमादनी मुरायामथ जायानुजीविनः । बकाश्विन नटदुःस्थाः स्याद्धमकेतनोऽनले ॥ २७ ॥ ग्रहभेदे च प्रतिपादनं बोधनदानयोः । पद्मलाच्छनो धनदे लोकेशे रविवेधसोः ।। २८ ॥ पद्मलाच्छना तारायां सरस्वत्यां श्रियामपि । पीतचन्दनं स्यादरिद्रायां काश्मीरजन्मनि ॥ २९॥
कलं मनोज्ञमनुनदति कलानुनादी । त्रयोऽपि पक्षिणः । चंचरीके. स्त्रीपुंसः । गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके । गन्धेन मदयति गन्धमादनः ।। रम्यादित्वादनटि बाहुलकात् । हूस्वाभावः । अदिभिदि पुंक्लीबः । तत्र यथात्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता । अलिनि भ्रमरे स्त्रीपुंसः ॥२६॥ गन्धमादनी सुरायां । टीत्वाड्डीः । अथ जायानुजोविनः । बकाश्विननटदुःस्थाः । जायामनुजीविनः जायानुजीविनः । चतुष्वर्थेषु । अश्विनौ अश्विनीकुमारौ । स्यामकेतनोऽनले । ब्रहभेदे च । धूमः केतनमत्स्य घूमकेतनः । द्वयोर्यथा-धूमकेतनरुचा विजृम्भितम् ॥२७॥ प्रतिपादन वोधनः दानयोः । प्रतिपाद्यते प्रतिपादनः । बोधने यथा-शास्त्रस्य शिष्यप्रतिपादन यथा। दाने यथा-फलं हि पात्रप्रतिपादनं श्रियः । पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः । पद्म लाञ्छनमस्य पद्मलाञ्छनः । लोकेशः शम्भुः । चतुर्वपि यथा-पुष्णातु भक्तिनिष्णानां वाञ्छितं पद्मलाञ्छनः ॥ २८ ॥ पद्मलान्छना तारायां सरस्वत्यां श्रियामपि । तारा बौद्धानां देवी । पीतचन्दन स्यादरिद्रायां काश्मीरजन्मनि । पीतं च तच्चन्दनं च पीतचन्दनं । द्वयोर्यथापीतचन्दनपिशंगितं वपुः ॥ २९ ॥ महारजनं कुसुम्भे स्वर्णे । रज्यतेऽनेन रञ्जनं । तुदादिवृजिरंजीति (उ० २७३) किदनः । महच्च तद्रजनं च महा