________________
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
(४२२)
महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे ।। ३० ।। द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि । कालेये वरवर्णिन्यङ्गनाळा क्षाप्रियङ्गुषु ।। ३१ ।। रोचनायां हरिद्रायामथ स्याच्छकुलादनी ।
मांसी पिचुलिका जलपिप्पलिकासु च ॥ ३२ ॥ शालाङ्कायनो नन्दुयुध्योः 'स्याच्छ्वेतवाहनः शशी । पार्थोऽथ सहस्रवेधी चुक्रे सहस्रवेधि तु ।। ३३ ।। रजनं । द्वयोर्यथा - महारजनराजिता शुक्रवतीव संध्यावधूः । अथ मधुसूदनः । भ्रमरे केशवे । मधु सूदितवान् मधुसूदनः । द्वयोर्यथा - कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र कि कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । कान्तेऽहं मधुसूदनो व्रज लतां तामेव मध्वन्वितामित्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः । मृत्युवश्चनः श्रीफले हरे । द्रोणकाकेऽपि । मृत्युं वञ्चयति मृत्युवञ्चनः । श्रीफलो बिल्वः । त्रिष्वपि यथा - मृत्युवञ्चनपत्रैर्यः पूजयेन्मृत्युवञ्चनं स मृत्युवंचन इव चिरायुर्जायते नरः ॥ ३० ॥ अथ वरचन्दनं देवदारुणि । कालेये । वरं चन्दनं वरचन्दनम् । देवदारुणि यथा - 1 कर्णे नवानि वरचन्दनपल्लवानि । कालेये कुंकुमे यथा - भालस्थलीषु वरचन्दनमण्डनानि । वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु । रोचनायां हरिद्रायां । वरवर्णोऽस्त्यस्या वरवर्णिनी । अङ्गनायां यथा - एतां विहाय वरवर्णिनि ताम्रपर्णी नान्यत्र सम्भवति मौक्तिककामधेनुः । शेषा ओषधयः ॥ ३३ ॥ अथ स्याच्छकुलादनी । कट्वा मांसी पिचुलिका जलपिप्पलिकासु च । शकुलानत्ति शकुलादनी । रम्यादित्वादनटि डी ( ५-३ - १२६) । सर्वा ओषधयः ॥ ३२॥ शालाङ्कायनो नंयुष्योः । शलङ्कोरपत्यं शालङ्कायनः । क्रोष्टुशलङ्कोर्न लुक्चेति (६-१-५६) आयनण् । अन्तलुक् च । नन्दी हरप्रतीहारः । ऋषिमुनि१. शिवकीर्तिनशब्दस्तु भृङ्गरीटेऽसुरद्विषि । श्वेत० ।
1
i