________________
पञ्चमः काण्डः
(४२३)
हिङ्गो 'चामरपुष्पस्तु केतके चूतकाशयोः। गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले ।। ३४ ।। धूलीकदम्बस्तिनिशे नीपे वरुणपादपे। शृगालजम्बूोडुम्बे फले च बदरीतरोः ॥ ३५ ॥ अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ।। ३६॥
विशेषः । स्याच्छ्वेतवाइनः शशी पार्थः । श्वेतं वाहनमस्य श्वेतवाहनः । अथ सहस्रवेधी चुक्रे । सहस्र वेधयति सहस्रवेधी। चुक्रोऽग्लवेतसः । सहस्रवेधि तु। हिङ्गौ। हिंङ्गु रामठं। पुंसीत्यन्ये । अथ पान्ताः ॥ ३३ ॥ चामरपुष्पस्तु केतके चूतकाशयोः । चामरवत्पुष्पमस्य चामरपुष्पः ।
॥ अथ वान्ताः ॥ ___ गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुछे । गोरक्षाणां जम्बूरिव गोरक्षजम्बूः ॥ ३४ ॥ धूलिकदम्बस्तिनिशे नीपे वरूणपादपे। धूल्याः कदम्बो धूलीकदम्बः । नीपे यथा- धूलीकदम्बपरिधूसरदिङ्मुखस्य । शृगालजम्बूगौडुम्बे फले च बदरीतरोः । शृगालस्य जम्बूरिव शृगालजम्बूः गोडम्ब ओषधम् ॥ ३५ ॥
॥ अथ मान्तौ ॥ अभ्युपगमः समीपाममने स्वीकृतावपि । अभ्युपगम्यते अभ्युपगमः । स्वीकृतौ यथा-करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु । नक्षत्राणां नेमिरिव नक्षत्रनेमिः । शीतांशुरिन्दुः । रेवतीभम् । औत्तानपादिर्धवः ॥ ३६ ॥
१. हरिचन्दनमाख्यातं गोशीर्षे देवपादपे । हरिवाहन इत्युक्तो भास्करामरनाथयोः । भवेच्चामर पुष्पस्तु ।