________________
(४२४) अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
कालानुसार्य शैलेये कालिये शिशपातरौ । अथ स्याद् दुग्धतालीयं दुग्धाग्रं दुग्धफेनयोः ॥३७॥ 'वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियां । उत्पलपत्रं उत्पलदले स्त्रीणां मखक्षते ॥ ३८॥
॥अथ यान्ताः ॥ कालानुसार्य शैछेये कालीये शिंशपातरौ । कालेनानुत्रियते कालानुसार्यम् । शैलेयं धातुविशेषः । कालीयं गन्धद्रव्यम् । अथ स्यादुग्धतालीयं दुग्धानं दुम्बफेनयोः। दुग्धं ताडयति दुग्धतालीबम् । गवहृदयादय (उ०३७०) इति साधु । दुग्धानं दुग्धसारः ॥३७॥ तृषाकपायी जीवन्त्यां शतावयुमयोः श्रियां । वृषाकर्भार्या वृषाकपायी । पूतक्रत्विति (२-४-६०) डी: एचान्सस्य । जीवन्तीशतावर्यावोषधी । तयोर्वषाकपायीव वृषाकपायी । उमायां यथा-वसत्यजत्रं विहरान् वनान्तरे । वृषाकपायी सहितो वृषध्वजः । श्रियां यथा-वृषाकपायी यदि हेलया पदं ददाति गण्याः क्व भवादृशास्ततः। वृषाकपिशब्दस्याग्न्याबनेकार्थत्वात् । धवयोगात्तद्भार्यासु स्वाहादिष्वपि वृषाकपायी शब्दः प्रयुज्यते । तत्र स्वाहायां यथा-धन्धा वृषाकपायीति । इन्द्राण्यां यथा-वृषाकपायीमभ्येति सत्रपः किं न गोत्रमित् । ऋषिविशेषभार्यायां यथा-वृषाकपायीजलसेकवर्द्धितैर्मनोहरैराश्रमवृक्षकैरिमम् ।
॥अथ रान्ताः ॥ उत्पलपत्रं, उत्पलदले स्त्रीणां नखक्षते । उत्पलस्य पत्रमिव वा उत्पलपत्रम् । उत्पलदले यथा-धारांशितां रामपरश्वधस्य सम्भावयत्युत्पलपत्रसाराम् । स्त्रीणां नखक्षते यथा-उत्पलपत्राकाराणि यानि कररुहपदानि तत्कथितम् । उत्पलपत्रकमुचितं कांची मार्गेऽथ कक्षासु ॥ ३८ ॥ कपिलधारा त्रिदशापगायां तीर्थभिद्यपि । कपिलस्य धारा कपिलस्य धाराऽत्र वा कपिल
१. भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि । वृषा०