________________
पञ्चमः काण्डः
(४२५)
कपिलधारा त्रिदशापगायां तीर्थभिद्यपि । तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ ३९॥ तालीशपत्रन्तु तामलक्यां तालीशके क्वचित् । पादचत्वरः करके परदोषकभाषिणि ॥ ४०॥ सैकते छगलेऽश्वत्थमेऽथ पांसुचामरः । वर्धापके प्रशंसायां दूर्वाश्चिततटी भुवि ॥४१॥ पुरोटौ धूलिगुच्छे पीतकावेरं तु कुङ्कमे । पित्तले वस्वोकसारा विन्द्रस्य धनदस्य च ॥ ४२ ॥
धारा । तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च । तमालश्च तत्पत्रं च तमालस्य पत्रं पत्रमिव वा तमालपत्रम् । तापिच्छस्तमालः । पत्रकं सुगन्धिद्रव्यम् । त्रिष्वपि यथा-तमालपत्रं मृगनाभिगन्धि वनान्तलक्ष्म्या वदने विभाति ॥ ३९ ॥ तालीश(स)पत्रं तु तामलक्यां तालीशके क्वचित् । तालीसवत्पत्रं यस्य तालीसपत्रम् । द्वावपि वृक्षभेदौ । क्वचित्तालीसके लक्ष्यानुसारेण । पादचत्वरः करके परदोषैकभाषिणि । सैकते छगले अश्वत्यगुमे । पादे पादस्य वा चत्वरमस्यास्माद्वा पादचत्वरः । परदोषैकभाषिणि वाच्यलिङ्गः ॥ ४० ॥ अथ पांसुचामरः । वर्धापके प्रशंसायां दूर्वाञ्चिततटीभुवि । पुरोटौ धूलिगुच्छे । पांसुमित्रं चामरमस्य पांसुचामरः । पुरोटिनद्यादौ पूरानीतकचवरः ॥ ४३ ॥ पीतकावेरं तु फुडामे, पित्तले । कावेरी देवताऽस्य कावेरं । पीतं च तत्कावेरं च पीतकावेरं । वस्वोकसारा विन्द्रस्य धनदस्य च । नलिनो पुर्योः। वसुयुक्तानि ओकांसि सारमस्यां वस्वोकसारा । पृषोदरादित्वात् । इन्द्रधनदपुर्योर्यथा-वस्वोकसारामभिभूयसाहं सौराज्यबद्धोत्सवया विभूत्या समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥ ४२ ॥ विप्रतिसारस्त्वनुशये रुषि कौ कृत्ये । विप्रति स्रियते विप्रतिसारः । अनुशयः पश्चात्तापः । रुट कोपः । तयोर्यथा-प्रापि चेतसि स विप्रतिसारे सुभ्रुवामवसरः सरकेण । कुः