SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ (४२६) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः नलिनीपुर्यो विप्रतिसारस्त्वनुशये रुषि । कौ कृत्ये सर्वतोभद्रस्त्वोकोभित् काव्यचित्रयोः ॥४३॥ निम्बेऽथ सर्वतोभद्रा गम्भार्या नटयोषिति । समभिहारस्त्वाभीक्ष्ण्ये भृशार्थेऽथासुतीबलः ॥ ४४ । शौण्डिके यज्वन्युद्दण्डपालो मत्स्याहिभेदयोः। स्यादेककुण्डलो बलभद्रे किम्पुरुषेश्वरे ॥ ४५ ॥ कृपीटपालस्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः ॥ ४६॥ पृथिवी । कृत्यं कार्य । सर्वतोभद्रस्त्वोकोभित्कायचित्रयोः। निम्बे । सर्वतोभद्राण्यस्य सर्वतोभद्रः । व्यूहभेदकल्याणवतोरपि । चित्रकाव्यव्यूहभेदयोयथा-विषमं सर्वतोभद्रचक्रगोमूत्रिकाभिदिः । श्लोकैरिख महाकाव्यं व्यूहैस्तदभवद्वलं । ओकोभिदि कल्याणवति च यथा-स्वेच्छाप्रवेशा वाचस्ताः सर्वतोभद्रतां गताः ॥ ४३ ॥ अथ सर्वतोभद्रा गम्भाय नटयोषिति । गम्भारी श्रीपर्णीवृक्षः । समभिहारस्त्वाभीक्ष्ण्ये भृशार्थे । समभिहरणं समभिहारः । द्वयोर्यथाक्रियासमभिहारेण विराध्यन्तं क्षमेत कः। . ॥ अथ लान्ताः ॥ अथासुतीबलः । शौण्डिके यज्वनि । आसुतिः सन्धान विद्यतेऽस्य आसुतीबलः । कृष्यादित्वाद् वलच् (७-२-२७) । पित्रादेरिति दीर्घः । द्वयोयथा-आसुतीबलशालात्र क्व देशे तु सुरांचिता । इति होत्रार्थितश्छात्रः शुण्डास्थानमदर्शयत् ॥ ४४ ॥ उद्दण्डपालो मत्स्याहिभेदयोः । उद्युक्तो दण्डपालोऽत्र उद्दण्डपालः । मत्स्यभेदेऽहि भेदे च । स्यादेककुण्डलो बलभद्रे किंपुरुषेश्वरे । एकं कुण्डलमस्य एककुण्डलः । द्वयोर्यथा-एककुण्डलयुतं वृषाकपिम् । कृपीटपालस्तु केनिपाते जलनिधावपि। कृपीटं जलं पालयति कृपीटपालः । केनिपातोऽरित्रम् ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy