________________
पञ्चमः काण्डः
(४२७)
सुरतताली शिरकदृत्योरथाशितम्भवः । अन्नादौ तृप्तौ च 'नभश्चमसश्चन्द्रमाययोः॥४७॥ चितायूपे हिङ्गुनिर्यासो हिङ्गुरसनिम्बयोः । हिरण्यरेता चलने सहस्रकिरणेऽपि च ॥ ४८ ।।
इत्याचार्यहेमचन्द्रसूरीश्वररचितेऽनेकार्थसंग्रहे
पञ्चस्वरकाण्डः पञ्चमः ॥५॥ स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः । पाण्डुश्चासौ कम्बलश्च पाण्डुकम्बलः ॥ ४६॥ सुरतताली शिरःसक्दत्योः । सुरतेन ताड्यते सुरतताली।
॥ अथ वान्ताः ॥ अथाशितम्भवः अन्नादौ तृप्तौ च । आशितस्तृप्तो भवत्यनेन आशितस्य भवनमिति वा । आशितम्भवः । भावे चाशिताद्भुवः खः (५-१-१३०)॥ द्वयोर्यथा-आशितम्भव मात्रद्धर्या कश्चिच्छेदाशितं भवम् ।
॥अथ सान्ताः ॥ नभश्चमसश्चन्द्रमाययोः । चितायुपे । नभश्चमति नभश्चमसः । तप्यणीत्यसः ।। (उ० ५६९) ॥ माया इन्द्रजालम् ॥४७॥ हिंगुनिर्यासो हिंगुरसनिम्बयोः। नियस्यते निर्यासः । हिंगोनिर्यासो हिंगुरिव निर्यासोऽस्येति वा हिंगुनिर्यासः । हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ।। ४८ ॥ हिरण्यं रेतोऽस्य हिरण्यरेताः । ज्वलने यथा-ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
इत्याचार्यश्रीहेमचन्द्रविरचितायामनेकार्थकैरवाकरकौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायां पंचस्वर
काण्डः पंचमः समाप्तः ॥५॥
१. स्यादाषाढभवो भौमे नवीनजलदेऽपि च । स्यान्नभ० ।