SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठः काण्डः ॥ ग्राममद्गुरिका युद्धशृङ्गयोः मातुलपुत्रकः' । धत्तूरकस्य च फले मातुलस्य च नन्दने ॥ १ ॥ लूतामर्कटकः पुत्रीनवमालिकयोः कपौ । वर्णबिलोडकः काव्यच्छाया हृत्सन्धिचौरयोः ॥ २ ॥ सिन्दूरतिलको हस्ती सिन्दूरतिलकाऽङ्गना । दोहदलक्षणं गर्भ स्यात्सन्धौ यौवनस्य च ॥ ३ ॥ अहँ । अथ षष्ठं षट्स्वरकाण्डमारभ्यते । तत्रादौ कान्ताः । ग्राममद्गुरिका युद्धशृङ्गयोः । ग्राममद्गुवत् रायन्ति शब्दायन्ते नरा अत्रेति ग्राममद्गुरिका । 'कुशिकेति (उ० ४५) साधुः । शृङ्गी ओषधिः । मत्सीभेदो वा । मातुलपुत्रकः । धत्तुरकस्य च फले मातुलस्य च नन्दने । मातुलो धतूरो मातुः भ्राता च । तस्य पुत्रो मातुलपुत्रकः । लूतामर्कटकः पुत्रीनवमालिकयोः कपौ । लूतामर्कति दिव्यचीत्यटे के च लूतामर्कटकः । पुत्री ओषधिः । वर्णविलोडकः काव्यच्छाया हृत्सन्धिचौरयोः। वर्ण छायां ब्राह्मणादि वा । विलोडयति वर्णविलोडकः । वाच्यलिङ्गः । सन्धिचौरः सुरङ्गाचौरः ॥ २॥ सिन्दूरतिलको हस्ती । सिन्दूरेण तिलकोऽस्य सिन्दूरतिलकः । सिन्दूरतिलकाङ्गना । द्वयोयथा-सिन्दूरतिलकारूढः सिन्दूरतिलकावृतः । स ययौ रन्तुमुद्याने साक्षादिव पुरन्दरः । ॥ अथ णान्तौ ॥ दोहदलक्षणं गर्भ स्यात्सन्धौ यौवनस्य च । दोहदो लक्षणमस्य दोहदलक्षणम् । गर्भे यथा-निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणादोहदलक्षणं १. स्यान्मदनशलाका तु सार्या कामोदयौषधौ । मातुल०। २. स्नानाचिकित्सक चातुर्मास्यव्रतकरे दरे । स्नानाचिकित्सकं प्रोक्तं नारीपुष्प तपस्ययोः। सिन्दूर।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy