SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ षष्ठः काण्डः (४२९) यौवनलक्षणं वक्षोरुहे च लवणिम्नि च । अपारापतश्चित्रकण्ठे स्यात्तित्तिरावपि ॥ ४ ॥ प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । विष्वक्सेनप्रिया त्रायमाणोषध्यां श्रियामपि ॥ ५ ॥ इत्याचार्यश्रीहेमचन्द्रसूरीश्वरविरचितेऽनेकार्थसंग्रहे षटूस्वरकाण्डःषष्ठः ॥६॥ दधौ । सन्धौ यौवनस्येति बाल्ययौवनयोः सन्धावित्यर्थः ॥ ३ ॥ यौवनलक्षणं वक्षोरुहे च लवणिम्नि च । यौवनस्य लक्षणं यौवनलक्षणं । द्वयोर्यथाअलङ्कृतां यौवनलक्षणेन दृष्ट्वा मृगाक्षी मुमुहुर्युवानः । ॥ अथ तान्ताः । - अर्द्धपारापतश्चित्रकण्ठे स्यात्तित्तिरावपि । अर्द्धन पारापतोऽर्द्धपारापतः । द्वावपि पक्षिभेदौ ॥ ४ ॥ ॥ अथ यान्तौ ॥ प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । प्रत्युद्गभ्यते प्रत्यद्गमनीयम् । उपस्थेये वाच्यलिङ्गः । धौतांशुकद्वये यथा-सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवस्वा । विष्षकसेनप्रिया त्रायमाणौषध्यां श्रियामपि । विष्वक्सेनस्य प्रिया विष्वक्सेनप्रिया । श्रियां यथा- विष्वक्सेनप्रियादेया तुभ्यमभ्यधिकां श्रियाम् ॥ ५ ॥ इत्याचार्यश्रीहेमचन्द्रसूरीश्वरविरचितायामनेकार्थकैरवाकरकौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायां षट्स्वरकाण्डः षष्ठः समाप्तः ॥६॥ १. विश्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि । समुद्रनवनीते स्यात्पीयूषे च सुधाकरे ॥
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy