SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमः (परिशिष्ट) अव्ययकाण्डः ॥ अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् ॥ अस्वल्पार्थेऽप्यभावेऽपि स्यादास्मरणवाक्योः ॥१॥ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । आं स्यादविस्मृत्योराः सन्तापप्रकोपयोः ॥ २ ॥ अहं । अथ सप्तममनेकार्थशब्दशेषमनेकार्थाव्ययकाण्डमारभ्यते । अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अथेति षट्काण्ड्यनन्तरमव्ययानि भण्यन्ते । अत्र पूर्ववदेव स्वराद्याद्यन्त क्रमो विज्ञेयः । तत्रादौ एकस्वराः । तत्र च अकारः । अः स्वल्पार्थेऽप्यभावेऽपि । अतति अटति वा । कचिदिति । डे । स्वल्पार्थे यथा-अल्पमपि प्रत्याख्यानमावृणन्ति अप्रत्याख्यानावरणाः क्रोधादयः । अभावे यथा-असंशयं क्षत्रपरिग्रहक्षमा । अथ आकारौ । स्यादास्मरणवाक्ययोः ॥ १ ॥ अनिति आ । डिदिति (उ० ६०५) आप्रत्ययः । स्मरणे यथा-आ ज्ञातं मधुलम्पटैमधुकरैराबद्धकोलाहले नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता । वाक्ये यथा-यदि आ एवं नु मन्यसे ॥ १ ॥ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । कारोऽनुबन्धमात्र । ईषदथ यथा-आ पिंगजूटतटटंकितचन्द्रलेखं । अभिव्याप्तौ अभिविधौ यथा-सोहमाजन्मशुद्धानामाफलोदयकर्मणां । क्रियायोगे यथा-आमुक्तमुक्तालतमस्य वक्षः । अवधौ यथा-आ समुद्रक्षितीशानां । अथाकारादितिः । आं स्यादवधिस्मृत्योः । अमते राङ्पूर्वास्किपि आं । द्वयोर्यथा-आं ज्ञातं मधुसूदनानियुगलं मुक्त्वास्ति नान्या गतिः। ॥ अथाकारादिः सान्तः ॥ आः सन्तापप्रकोपयोः । आस्तेः क्विपि आः । सन्तापे यथा-आः पूर्णस्वकलाभिरिन्दुरमलो यातश्च राहोर्मुखम् । प्रकोपे यथा-आः पापतापसकिरातकृशानुकीर्ण वज्र न किं पतति मूर्द्धनि ते नमस्तः । आश्चर्येऽपि
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy