________________
सप्तमः काण्डः
(४३१) इ स्यात्श्वेदे प्रकोपोक्तौ,'ई क्रोधे दुःखभावने। प्रत्यक्षे सम्भिधौ चाप्यु रोषोक्त्याऽऽमन्त्रणार्थयोः ॥ ३॥ उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु ॥
विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्मणोः ॥४॥ यथा-आः किमेतदपूर्वोयं दृष्टः क्षत्रियपोतकः ॥ २ ॥ अथ इकारः । इ स्यात्श्वेदे प्रकोपोक्तौ । एति विपि इ। आगमशासनस्याऽनित्यत्वात्तागमाभावः । द्वयोर्यथा-अमी अमुमु ई चोस्य नखाः कण्ठे इ ईक्षिता । अथ ईकारः । ई क्रोधे दुःखभावने । प्रत्यक्ष सन्निधौ चापि । ईड् गतौ । किपि ई । चतुवर्थेषु यथा-ई ईदृशी रतिः कथम् । अथ उकारः । उ रोषोक्त्यामन्त्रणार्थयोः । उड् शब्दे किपि तागमाभावे उ । रोषोक्तौ यथा-उ (उ अ) एहि त्वमुत्तिष्ठ । आमन्त्रणार्थे यथा-क्वचित्कदाचित्किमु किंचिदेव कृतं मया सुन्दरि विप्रियन्ते ॥ ३ ॥
॥ अथ उकारादिन्तिः ॥ उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्मणोः । उन्देर्वदेर्वा विपि उत् । प्राधान्ये यथाउत्तमा मानमिच्छन्ति । प्रकाशे यथा-उद्भूतः सरसिजसम्भवः परागः । प्राबल्ये यथा-उत्कम्पिनी भयपरिस्खलितांशुकान्ता । अस्वास्थ्ये यथा-येनान्तर्जलचारिभिर्जलचरैरत्युक्तमुत्कूजितम् । शक्तौ यथा-माघेन विनितोत्साहानोत्साहान्त पदक्रमे । विभागे यथा-उत्पथप्रतिपन्नस्य परित्यागो विधीयते । बन्धने यथा-पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । मोक्षे यथाउच्छृखलं वलातिवाजिराजः । भावे सम्भावे यथा-परार्द्धबद्धकक्षाणां त्वादृशामुद्भवः कुतः । लाभे यथा-उत्पन्नभक्षक मूर्खम् । ऊर्ध्वकर्मणि यथा-उत्तिष्ठन्त्या १. प्रकोपोक्तौ कामदेवे स्वनन्ययम् । २. ई लक्ष्म्यां तु च नाव्ययम् । ३. शिववाची वनव्ययम् ।