________________
(४३२) अनेकार्थसंग्रहः सटीका : द्वितीयो विभागः
उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यू प्रश्ने रोषवाचि च । ऋ 'कुत्सावाक्ययोरे ऐ हे है शब्दाविव स्मृतौ ॥५॥ आमन्त्रणाहानयोरों प्रणवेऽङ्गीकृतावपि । ओ औ शब्दौ तु हो हौ वद् हतौ सम्बोधनेऽपि च ॥६॥
रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा ॥ ४ ॥ अथ उकारादिन्तिः । उं प्रश्नेऽङ्गीकृतौ रोषेऽपि । वेंग् तन्तुसन्ताने । बाहुलकात् कितिम उं । प्रश्नाङ्गीकृत्योर्यथा-कोयं नाथ जिनो भवेत्तव वशी उँहुं प्रतापी प्रिये । रोषे यथा-उं तनोमि तवेप्सितं । अथ ऊकारादिन्तिः । ऊ प्रश्ने रोपवाचि च । ऊपैड् तन्तुसन्ताने । बाहुलकात् किमिति ऊं । प्रश्ने यथा-ऊं कास्ति मे जानकी । रोषवाचि यथा-ऊं सैवास्मि तव प्रिया । अथ ऋकारः । ऋ कुत्सावाक्ययोः । ऋक् गतौ क्विपि, तागमाभावे ऋ। द्वयोर्यथा-बाले किमृविमृद्नासि । अथ एकारऐकारौ । ए ऐ है है शब्दाविव स्मृतौ । आमन्त्रणाहोनयोः । इण्क् गतौ विचि ए । बाहुलकाद् वृद्धौ ऐ। हिनोतेर्विचि हे । बाहुलकाद्वृद्धौ है ॥ ५ ॥ आमन्त्रणाह्वानयोर्यथा-ए इतो भव ऐ भयंकरं श्मशानम् । तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु । हे देवदत्त चल है वज यज्ञदत्त । अथ उँकारादिान्तः । बंधानुरोधात्तु प्रथममुक्तः । ओं प्रण
१. ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् ।
ऋ कुत्सायां च वाक्ये च देवमातर्यनव्यम् । ऋ वाक्यकुत्सयोर्दैत्यजनन्यामायनव्ययम् ॥ ल कुत्सायां विस्मये च लुशब्दोऽपि तदर्थकः । देवमातरि वाराह्यां क्रमात्तावाप्यनव्ययौ ॥ एऐशब्दौ तु हेहैवत् स्मृत्यामंत्रणहतिषु । क्रमाच्चतुर्भजे शम्भावे ऐशब्दावनव्ययौ ॥
आमित्यनुमती प्राक्त प्रणवे चाप्युपक्रमे ) ओसौशब्दौ तु होहौव सम्बुद्धयाहवानयोर्मतौ । विधातरि क्रमाद्विष्णावे औशब्दावनव्ययौ । कु.