________________
सप्तमः काण्ड:
(४३३) कु पापीयसि कुत्सायामीपदर्थे निवारणे । कं सुखे वारिशिरसोः किं प्रश्ने कुत्सनेऽपि च ॥ ७. ।। चान्योऽन्यार्थसमाहारान्वाचयेषु समुच्चये।
हेतौ पक्षान्तरे तुल्ययोगिता विनियोगयोः ॥८॥ वेङ्गीकृतावपि । अवति ओ । अविर्मः । प्रणवे. यथा-समस्तं व्यस्तं त्वां शरणद गुणात्योमिति पदं । अङ्गीकृतौ यथा-ओमित्युक्तवतोऽथ शाङ्गिण इति । अथ ओकार-औकारौ । ओ औ शब्दौ तु हो-हो-वद् हतौ सम्बोधनेऽपि च । उड्शब्दे विचि ओ । बाहुलकाद् वृद्धौ औ । एवं जुहूतेः हो हो । द्वयोयथा-तदो अलमनेनेति सखीमाहा ओ मानिनी । औ कुत्र गतो गौः । हो पश्य वराहोऽयं । हौ सर्पत्यही यासि किम् ॥ ६ ॥
॥ अथ कादिः ।। कु पापीयसि कुत्सायामीषदर्थे निवारणे। कौतेः क्विपि तागमाभावे कु । कायति वा । दृकेति किदुः । पापीयसि यथा-यद्दोग्धृमित्रं किमतः कुकृत्यं । कुत्सायां यथा-कुमित्रे नास्ति विश्वासः । ईषदर्थे यथा-कोष्णं किन्नु निषिच्यते तव बलात्तल सखिश्रोत्रयोः ।
॥अथ कादी मान्तौ ॥ __ के सुखे वारिशिरसोः । कामयतेः, “गमि जमि क्षमि कमी"(ऊ० ९३७) ति डित्यमिकं । त्रिष्वपि यथा-रेजे कादम्बिनी वेयं, कामिनी कम्रकन्धरा । कि प्रश्ने कुत्सनेऽपि च । कौतेः कोर्डिन् । किं प्रश्ने यथा-किं ते भूयः प्रियमुपकरोमि । कुत्सने यथा-स किंसखा साधु न शास्ति योऽधिपं, हितान्न यः संश्रुणुते स किंप्रभुः ॥ ७ ॥ अथ चादिः । चान्योऽन्यार्थसमाहारान्वाचयेषु समुच्चये । हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः। पादपूरणेऽवधृतौ । चिनोति चः । क्वचिदिति डः । अन्योऽन्यार्थे इतरेतरयोगे यथा-तयोर्जगृहतुः पादौ राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च, प्रीत्या प्रतिनन