________________
(४३४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
पादपूरणेऽवधृतौ तु विशेषेऽवधारणे । समुच्चये पादपूतौं धिक् निर्भनिनिन्दयोः॥९॥
न्दतुः ॥ अत्र इतरेतरयोगस्योद्भूतावयवभेदत्वात् जगृहतुर्जगृहतुरिति द्विवचनम् । समाहारे तु तिरोहितावयवभेदत्वादेकवचनम् । यथा-अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तञ्च वपुर्वयश्च । धर्मस्य दानञ्च दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ॥ अन्वाचये यथा-हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता, क्रीडाशैले यदि च विचरेत्पादचारेण गौरी । समुच्चये यथाविकारः कोऽप्यन्तर्जडयति च तापं च कुरुते । हेतौ यथा-गुरोनियोगाच्च नगेन्द्रकन्या । पक्षान्तरे यथा—कैकेय्याः क्व वरो वरेण विपिनप्रस्थानयाञ्चा क च, क्वायं वंशशरो विकर्तनविधिः, सीतापहारः क्व च । सुग्रीवानुगतिः क्व च क्व च वधस्तस्यापि लङ्कापतेरेकैकं चरिताद्भुतं समभवत्पुण्यैः कवीनामदः ॥ तुल्ययोगितायां यथा-प्रतिग्रहीतुं प्रणयिप्रियत्वात् , त्रिलोचनस्तामुपचक्रमे च । सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोधं समधत्त बाणम् ॥ १ ॥ विनियोगे यथा-मधुश्च ते मन्मथ साहचर्याद सावनुक्तोऽपि सहाय एव ॥८॥ पादपूरणे यथा-धर्मे चार्थे च कामे च, मोक्षे च भरतर्षभ । अवधृतौ यथा-कर्मक्षयाच्च निर्वाणम् । अथ तादिः । तु विशेषेऽवधारणे । समुच्चये पादपूर्ती तौतेः क्विपि तागमाभावे तु । विशेषे यथा-किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः । अवधारणे यथा-ननु खण्डेन्दुजूटस्य प्रियाविरहजं तमः । पादपूर्ती यथा-दूरादेव कृतोऽञ्जलिर्न तु पुनः पानीयपानोचितः । अथ धादिकान्तः । धिक् निर्भत्सननिन्दयोः । दधाते गादित्त्वात्किकि धिक् । निर्भर्त्सने यथा-धिक् धि शत्रुजितं । निन्दायां यथा-धिक् तस्य जीवितं लोके । अथ नादयः ॥ ९॥ नि स्यात्क्षेपे भृशार्थे च नित्यार्थ दानकर्मणि । संधानोपरमयोः संश्रयाश्रयराशिषु । मोक्षेऽन्तभावेऽधोभावे बन्धने कौशलेपि च । नयतेनर्जीवी प्रहृभ्यो डिदिति इ प्रत्यये (उ० ६१६)। निक्षेपे यथा-रे रे क्षत्रनिकृष्ट