________________
सप्तमः काण्डः
(४३५)
नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि । सन्धानोपरमयोः संश्रयाश्रयराशिषु ॥ १० ॥ मोक्षेऽन्तभावेऽधोभावे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पविसर्कयोः ॥ ११ ॥ नभीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥१२॥
दुष्टकुमते । भृशार्थे यथा-तमार्यगृह्यं निगृहीतधेनुः । नित्यार्थे यथा-स्मर नित्यमनित्यताम् । दानकर्मणि यथा-निवापः सहकारमञ्जरी: प्रियचूतप्रसवो हिते सखा । सन्निधाने यथा-कटु रटति निकटवर्ती । उपरमे यथा-निवर्तयास्मादसमी(दी)प्सितान्मनः । संशयेयथा-निरेकमेकोऽपि निराकरोति । आश्रये यथाअयं वारामेको निलय इति । राशौ यथा-निजकरनिकरसमृद्धया ॥ १०॥ मोक्षे यथा-भोजेन दूतो रघवे निसृष्टः । अन्तभावे यथा-रुचिरार्थाः किमिह निष्ठिता वाचः । अधोभावे यथा-अपि निपतति पौरे (पूरे) पाथसां वारिदेभ्यः । बन्धने यथा-बद्धा पराणि परितो निगडान्यलावीत् । कौशले यथा-शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पवितकयोः। नौतेः क्विपि तागमाभावे । नु प्रश्ने यथा-रक्ताशोककृशोदरी क्व नु गता, त्यक्त्वानुरक्त जनम् । अनुशये कोपे यथा-तूलं तूलं नु गाढं प्रहर हरेति । विकल्पे यथा-स्वप्नो नु माया नु मतिभ्रमो नु । वित्त यथा-क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ ११ ॥ नजीषदर्थे सादृश्ये, तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे, निषेधाभावयोरपि । नह्यते क्वचिदिति डे नञकारोनुबन्धार्थः । ईषदर्थं यथा-अनुदरा कन्या । सादृश्ये यथा-अब्राह्मणः ब्राह्मणसदृशः । क्षत्रियादिरित्यर्थः । तद्विरुद्धे यथा-अधर्मः धर्मविरोधी पाप्मेत्यर्थः । तदन्यस्मिन्यथाअनग्निः। अग्नेरन्य इत्यर्थः । व्यतिक्रमे यथा-न ते मुखं चन्द्रं मन्ये । चन्द्रमतिक्रम्य ततोऽधिकम्मन्ये इत्यर्थः । स्वरूपार्थे यथा-न न न मम मा मा मां स्पाक्षीनिषेध