Book Title: Anekarth Sangraha Satik Part 02
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 435
________________ (४१८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः मण्डूकपर्णी मन्जिष्ठात्रीह्यो!जिहिकौषधे । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके ॥१६॥ वातरायणः क्रकचे सायके शरसंक्रमे । निष्प्रयोजननरे चापि, (चाप्य) अवलोकितमीक्षिते ॥१७॥ 'अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हारे । अजितेऽपराजिता तु दुर्गा श्वेता जयन्त्यपि ॥ १८ ॥ उपधृपित आसनमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ॥ १९ ॥ वृक्षाः। शोणकोऽरलुकभेदः ॥१५॥ मण्डूकपर्णी मनिष्ठात्रीह्यो!जिहिकौषधे । पाककर्णेति डीः । तिस्रोऽपि ओषधयः । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके। रोमाणि हर्षयति रोमहर्षणम् । रोमोद्गमे यथा-स्वेदबिन्दुततिलांछितालिकः सर्वतो विततरोमहर्षणः ॥ १६ ॥ वातरायणः क्रकचे सायके शरसंक्रमे । निष्प्रयोजननरे चापि । वातमियति वातरायणः । विदनगगनेति (उ. २७५) साधुः । सायको बाणः । शरसंक्रमः शरसेतुः । ॥अथ तान्ताः ॥ अवलोकितमीक्षिते । अवलोक्यते अवलोकितम् । यथा- गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ १७ ॥ अवलोकितस्तु बुद्धे । बुद्धः सुगतविशेषः । अपराचितोऽच्युते हारे। अजिते । न पराजीयते अपराजितः । अजिते वाच्यलिङ्गः । त्रिष्वपि यथा-त्रिलोकी रक्षिता येन स जयत्यपराजितः । अपराजिता तु दुर्गा श्वेता जयन्त्यपि । दुर्गा चण्डी, श्वेता गिरिकर्णिका । जयन्ती ओषधिः ॥ १८ ॥ उपधुपित आसन्नमरणे धृपितेऽपि च । उपधूप्यते उपधूपितः । वाच्यलिङ्गः । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ। गणानामधिपतिर्गणाधिपतिः । विघ्ननायके यथा-सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः । पार्वतीपतौ यथा-कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमि १. समुद्धरणं वान्तान्ने जलस्योद्धारणे प्रहे । अव०

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542