Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 14
________________ xiii एवं गुणप्रकरणान्तः प्रथमः भागः । द्वितीयभागे अलङ्कारसामान्यलक्षणमुक्तवा षड् शब्दालङ्काराः एकोनचत्वारिंशदधिकद्विशतार्थालङ्काराश्च (239) निरूपिताः । एतादृशमत्य पूर्व सर्वोपयुक्तं सुज्ञेयं सुमधुरम् अलङ्कारराघवाख्यं ग्रन्थं निर्माय राराज्यतेऽयं यज्ञेश्वर दीक्षितः । ग्रन्थस्यास्य संशोधकः सम्पादकश्च विद्वान् डा. टि. वि. सत्यनारायण: । स तु न केवलं ग्रन्थमिमं सम्पादितवान् किन्तु अध्येतॄणां आनुकूल्याय तत्र तत्र आवश्यक सन्दर्भे टिप्पणीश्च रचितवान् । महता प्रयत्नेन वैदुष्य पूर्णतया च सम्पादन कर्मानेन व्यधायि । अयमलङ्कारशास्त्रे च निपुणः । एतेन विद्वत्परीक्षयोः तथा एम्. ए. परीक्षार्या च प्रथमस्थानं प्राप्य सुवर्णपदकानि प्राप्तानि । अनेक भाषणस्पर्धा भागमुवा बहुमानं प्राप्तवान् । अनेकानि लेखनानि संस्कृत कर्णाटकोभयमः षयोः अनेन लिखितानि मुद्रितानि च । अनेकधार्मिकसंस्थासु उपन्यासाः अनेन कृताः । अस्य विद्वत्तां तथा प्रतिभां च दृष्ट्वा विविधमङ्घसंस्थाः ' प्रतिभापटुः ' ' वेदसूक्तविद्यासागर ः ' इति प्रशस्तिप्रदानेन इमं पुरस्कृतवत्यः । अन्यच्च प्रमोदस्थानं यत् पिहेच. डि. पदवी अपि अनेन स्वीकृता इति । एतादृशाः विद्वांसः अस्यां संस्थायां कर्म कुर्वन्ति इति वक्तुं सन्तुष्यति मे मनः । अनेन महाभागेन सम्पादितेन अलङ्कारराघवेण विद्वज्जनाः तोषं प्राप्नुवन्तु इत्याशा सेऽहम् |

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 354