________________
xiii
एवं गुणप्रकरणान्तः प्रथमः भागः ।
द्वितीयभागे अलङ्कारसामान्यलक्षणमुक्तवा षड् शब्दालङ्काराः एकोनचत्वारिंशदधिकद्विशतार्थालङ्काराश्च (239) निरूपिताः ।
एतादृशमत्य पूर्व सर्वोपयुक्तं सुज्ञेयं सुमधुरम् अलङ्कारराघवाख्यं ग्रन्थं निर्माय राराज्यतेऽयं यज्ञेश्वर दीक्षितः ।
ग्रन्थस्यास्य संशोधकः सम्पादकश्च विद्वान् डा. टि. वि. सत्यनारायण: । स तु न केवलं ग्रन्थमिमं सम्पादितवान् किन्तु अध्येतॄणां आनुकूल्याय तत्र तत्र आवश्यक सन्दर्भे टिप्पणीश्च रचितवान् । महता प्रयत्नेन वैदुष्य पूर्णतया च सम्पादन कर्मानेन व्यधायि ।
अयमलङ्कारशास्त्रे च निपुणः । एतेन विद्वत्परीक्षयोः तथा एम्. ए. परीक्षार्या च प्रथमस्थानं प्राप्य सुवर्णपदकानि प्राप्तानि । अनेक भाषणस्पर्धा भागमुवा बहुमानं प्राप्तवान् । अनेकानि लेखनानि संस्कृत कर्णाटकोभयमः षयोः अनेन लिखितानि मुद्रितानि च । अनेकधार्मिकसंस्थासु उपन्यासाः अनेन कृताः । अस्य विद्वत्तां तथा प्रतिभां च दृष्ट्वा विविधमङ्घसंस्थाः ' प्रतिभापटुः ' ' वेदसूक्तविद्यासागर ः ' इति प्रशस्तिप्रदानेन इमं पुरस्कृतवत्यः ।
अन्यच्च प्रमोदस्थानं यत् पिहेच. डि. पदवी अपि अनेन स्वीकृता इति ।
एतादृशाः विद्वांसः अस्यां संस्थायां कर्म कुर्वन्ति इति वक्तुं सन्तुष्यति मे मनः । अनेन महाभागेन सम्पादितेन अलङ्कारराघवेण विद्वज्जनाः तोषं प्राप्नुवन्तु इत्याशा सेऽहम् |