________________
xiv
अस्याः संस्थायाः इदानीन्तननिर्देशिकामहाभागा डा. हेच. पि. देवकी । एषा महाभागा शास्त्रज्ञा सुसंस्कृता विद्वस्त्रिया च । अलङ्कारशास्त्रे प्राप्तविद्वत्पदा । मैसूरुविश्वविद्यानिलयस्य संस्कृतविभागे मुख्या च। स्वमावसरला इयं महाभागा सम्पादनादिकर्मसु विदुषां विशेषेण प्रोत्साहदायिनी च । अस्याः अधिकारावधौ नेकविधाः ग्रन्थाः सहृदयहस्तं प्राप्नुयुः इति च आशासेऽहम् ।
सुधीविधेयः -पण्डितरत्नम् वेदान्तभूषणम् विद्यावाचस्पतिः वेदान्तसमर्थः · सच्छास्त्रविचक्षगः न्यायवेदान्तविद्वान्
आर्. जि. माळगी, एम्. ए. दिनाङ्कः 28-7-97
उपनिर्देशकः मैसूरु-5
प्राच्यविद्यासंशोधनालयः