SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उपोद्धातः सहृदयरञ्जकस्म काव्यस्य स्वरूपकथनशास्त्रम् अलङ्कारशस्त्रम् साहित्यशास्त्रम् इत्यादिशब्दैः व्यवहियते । तस्मिन् शास्त्रे काव्यस्य सर्वे विषयाः भरतादारभ्य जगन्नाथपर्यन्तम् अतिसूक्ष्मतया निरूपितास्सन्ति । भनेके आलङ्कारिकाः शास्त्रेऽस्मिन् अनेकान् ग्रन्थान् रचयामासुः। परं तेषां ग्रन्थेषु अनेके ग्रन्थाः अद्यापि मप्रकटिताः मातृकास्वेव सन्तीति चिन्तनीयो विषयः । तादृशेषु ग्रन्थेषु अलङ्कारराघवनामकग्रन्थोऽप्येकः । तस्य प्रकाशनमिदानी संपन्नमिति तु मोदावहो विषयः । ग्रन्थकारस्य परिचयः अलङ्कारराघवस्यास्य ग्रन्थस्य कर्ता यज्ञेश्वरदीक्षितः । स्वयमेव ग्रन्थकारः स्वनाम ग्रन्थमध्ये निर्दिशति । शब्दालंकारनिरूपणानन्तरं शब्दालंकारप्रकरणसमाप्तिवाक्ये- इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे शब्दालंकारनिरूपणं सम्पूर्णमिति कथितवान् । अनेनेदं निश्चितं यत् कृतेरम्याः रचयिता यज्ञेश्वरदीक्षितः पिता कोण्डुभट्टाध्यायः तिरुमलयज्वाऽस्य सोदरः आन्ध्रप्रदेशस्थः चरकूरिनामकः ग्रामः जन्मभूमिरस्येति च । 1j) अलङ्कारराघव by Cerukuri Yajnesvara Diksita, son of Kondu. bbatta and brother of Tirumala Yajvan, C. 1600 A.D. [New Catalogus Catalogorum Vol. I.P. 296] ii) 'The Author is the son of Cerukuri Kondubhatta and i nephew of the famous Lakshmidhara, as a commentator of his son's 'Citrabandha Ramayana' composed in A.D. 1635.
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy