________________
xii
शालिकनाथोक्तं तत्वचिन्तामणिकारोक्तं च लक्षणालक्षणम् अनूद्य खण्डयति । एतैः सर्वैरप्युक्तं , लक्षणम् असमीचीनमित्युक्त्वा स्वमतमेवं निरूपयति – 'गुणयोगनिमित्तत्त्वे सति उत्तमकाव्यत्वाप्रयोजकप्राधान्यवत्त्वे सति परत्र परशब्दस्य प्रयोगे लक्षणा' इति ।
महाकाव्यप्रबन्धनिरूपणप्रकरणे महाकाव्यलक्षणमेवं निरूपयति कविः
'नगरार्कशैलचन्द्रार्कोदयोद्यानजलक्रीडामधुपानरतोत्सवविप्र-. लम्भविवाहकुमारोदयमन्त्रदूतप्रयाणादिनायकाभ्युदयरूपाष्टादशवस्तुवर्णनात्मकत्वं महाकाव्यस्वम् ' इति ।
नाट्यप्रकरणे नाटकं प्रकरणं भाणः प्रहसनं डिमः व्यायोगः समवकारः वीथी अङ्कः ईहामृगः इति यानि दशरूपकाणि प्रसिद्धानि तेषां समेषामपि संक्षेपेण सुन्दरतया लक्षणानि कथितानि ।
मुखसन्धिः प्रतिमुखसन्धिः गर्मसन्धिः विमर्शसन्धिः निर्वहणसन्धिः इति ये प्रसिद्धाः पञ्च सन्धयः तेषां लक्षणं स्वरसतया संक्षेपेण वाट्यपकरणे निरूपितम् ।
चक्षु प्रीतिर्मनस्सङ्कल्पप्रलापजागरकाश्योरतिलज्जात्यागसब्ज्वरोन्माद - मूच्र्छनमरणानीति द्वादशावस्थाः प्रसिद्धाः। रसप्रकरणे एतासां द्वादशावस्थानां स्वम्वरूपं सोदाहरणं प्रत्येकं हृदयक्रमतया निरूपितम् । गुणानां सम्यग्विवेकाय दोषप्रकरणे काव्यदोषाः निरूपिताः। शब्ददोषाः अर्थदंषाश्च प्रत्येक सदृष्टान्तं विवृताः ।
काव्यगुणान् एकत्र सङ्गट 'बहुविधाः गुणाः वर्तन्ते' इति उक्त्वा श्लेषप्रसादादि त्रयं विंशति (2) गुणानामपि विवरणं प्रत्येकं सदृष्टान्तम् उ.पादितम् ।