________________
xi
न युक्तिदौर्बल्यमुदाहृतीनां
न मान्द्यमित्यादरयन्तु सन्तः ॥७॥
अयं च कविः रामभक्तः । रामानुग्रहपात्रं च । समग्रग्रन्थे सीतारामयोः एव नाम स्मरति । दृष्टान्तत्वेन गवेव स्वीकरोति । रामनामाङ्कितत्वादेव अय ग्रन्थः सर्वैः आदरणीयः इति कविः स्वाहङ्कार खण्डयति । यथा
सम्भवत्स्वपि दोषेषु रामनामाङ्कनादिह । ग्रन्थे सुपुरुषैः सम्यक् युज्यते कर्तुमादरः ॥८॥
. अनेन स्वकृतग्रन्थेन न केवलम् अलङ्कारशास्त्रज्ञानम् अपि तु वर्गादिप्रयोजनश्चास्तीति वदति । यथा
___" तथाहि अलंकारशास्त्रेण गुणदोषालंकारस्वरूपे निरूप्यमाणे वेदेऽपि सालंकार निर्दोषार्थज्ञानं फलति । तेन वेदार्थानुष्ठाने स्वर्गादिसिद्धिः प्रयोजनम् ।"
श्रीरामभक्तोऽयं कविः नायकनिरूपणसन्दर्भे एवं वदति
श्रीरामचन्द्रं स्वकृतेः कवीशः
. यो नायकं नायकमातनोति ।। स एव सैवात्र कृतिश्च धन्या
तस्यैव लोके सफलं च जन्म ॥५३॥ काव्यप्रकरणे वृत्तिनिरूपणसन्दर्भ लक्षणावृत्तेः लक्षणकथनावसरे एकावलीकारोक्तं काव्यप्रकाशिका रोक्तं साहित्यचिन्तामणिकारोक्तं