________________
प्रस्तावना
महदिदं प्रमोदस्थानं यत् अलङ्कारराघवाख्योऽयं ग्रन्थः प्रकाश नीयत इति । एतादृशाः नैकविधाः ग्रन्थाः प्राच्यविद्या संशोधनालयात् प्रकाशिताः इति च । विदितमेव सर्वेषाम् अयं संशोधनालयः आशतवर्षेभ्यः त्र्यशीत्यधिकशतसंख्याकान् (183) ग्रन्थान् प्राकाशयत् इति । अयं च चतुरशीत्यधिकशतसंख्याक : (184) इदानीं प्राकाश्यं नीयते ।
सन्ति चास्मिन् ग्रन्थालये एकादश संख्याकाः विद्वांसः । ते च भारते सच्चार्य हस्तप्रतीः सङ्गृह्णन्ति । सङ्गृहीतानां हस्तप्रतीनां रक्षणं अत्र क्रियते । मुख्याः सर्वजनोपयुक्ताः ग्रन्थाः ये वर्तन्ते तान् ग्रन्थान् विद्वांसः सम्पादयन्ति । विद्वद्भिः सम्पादिताः ग्रन्थाः अस्मात् संशोधनालयात् प्रकाश नीयन्ते ।
प्रकृते प्रकाशपदं नीयमानोऽयम् अलङ्कारराघवाख्यो ग्रन्थः । अस्मिन् ग्रन्थे भागद्वयं वर्तते । द्वितीयभागः षड्वर्षेभ्यः प्रागेव मुद्रितः । प्रथमः भागः इदानीं प्रकाशपदं नीतः ।
ग्रन्थस्यास्य रचयिता यज्ञेश्वरदीक्षितः कविः । स तु स्वग्रन्थे स्वयमेव स्त्रनाम निर्दिष्टवान् । अयं च कविः अलङ्कारशास्त्रे तथा न्यायशास्त्रे च प्रवीणः । 'भगवतः रामस्य स्वप्नप्रेरणया ग्रन्थोऽयं मया रचित:' इति कविः स्वस्यानुभवं स्वयमेव ग्रन्थे प्रकटीकरोति । यथा
रामाज्ञया स्वमनिरूढया मे
विनिर्मितेऽलङ्कतिराघवेऽस्मिन् ।