Book Title: Alankar Mahodadhi Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi Publisher: Oriental Institute View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना साहित्यामृतरसपानसतृष्णाः काव्यालङ्कारप्रियाः प्राज्ञाः ! सुप्रसन्नतां प्राप्नुवन्तु प्रातिभवन्तो भवन्तो गूर्जरेश्वरमन्त्रीश्वरवस्तुपालप्रेरणाप्रादुर्भूतस्य चौलुक्यनरेन्द्रसन्मानितनरचन्द्रसूरिशिष्यनरेन्द्रप्रभसूरिप्रतिभानिष्पन्नस्य स्वोपज्ञविवरणविभूषितस्य परिश्रमसम्पादितस्य प्रस्तुतस्यालकारमहोदधेरवलोकनावगाहनेन प्रतिभाप्रकर्षात् । साहित्यसमृद्धिकृद्धथै गूर्जरेश्वर-मन्त्रीश्वरादिप्रोत्साहनम् । साहित्यावगाहिनां सुविदितमेतत्-प्राच्यै रेश्वरैस्तन्मन्त्रीश्वरप्रभत्यधिकारिभिश्च प्रोत्साहिता जैनाचार्यप्रभृतयो नैके विद्वन्मूर्धन्या विद्वन्मनोविनोदकान् लोकोपकारकान् विविधविषयकान् नवीनान् ग्रन्थान् जग्रन्थुः, प्राचीनान् ग्रन्थांश्च व्याख्या-विवरणादिभिर्व्याचख्युः, प्राच्यसाहित्यलेखन-परिरक्षण-प्रथनादौ च विविधप्रकारेण प्रयेतिरे। गायकवाडपाच्यग्रन्थमालाप्रकाशित-पत्तन-जेसलमेरुदुर्गादिपुस्तकागारसूचिपत्रसमीक्षकानां सुज्ञानां किमिव नाम बहु विज्ञपनीयमस्मिन् विज्ञाते विषये ? दुर्लभराजरानसभायां चैत्यवासिवादिविजेत्रा जिनेश्वरसूरिणा सिद्धराजराजसभायां च दिगम्बरवादिकुमुदचन्द्रविजेत्रा वादिदेवमूरिणा तदनुयायिभिश्च विरचिता नैके ग्रन्थास्तत्रास्माभिः सूचिताः । सिद्धराज-कुमारपालप्रेरणा । गू रेश्वरसिद्धराज-जयसिंह-परमार्हतकुमारपालभूपालप्रार्थनाप्रेरिताः सुपसिद्ध. For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 482