________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना
साहित्यामृतरसपानसतृष्णाः काव्यालङ्कारप्रियाः प्राज्ञाः !
सुप्रसन्नतां प्राप्नुवन्तु प्रातिभवन्तो भवन्तो गूर्जरेश्वरमन्त्रीश्वरवस्तुपालप्रेरणाप्रादुर्भूतस्य चौलुक्यनरेन्द्रसन्मानितनरचन्द्रसूरिशिष्यनरेन्द्रप्रभसूरिप्रतिभानिष्पन्नस्य स्वोपज्ञविवरणविभूषितस्य परिश्रमसम्पादितस्य प्रस्तुतस्यालकारमहोदधेरवलोकनावगाहनेन प्रतिभाप्रकर्षात् ।
साहित्यसमृद्धिकृद्धथै गूर्जरेश्वर-मन्त्रीश्वरादिप्रोत्साहनम् ।
साहित्यावगाहिनां सुविदितमेतत्-प्राच्यै रेश्वरैस्तन्मन्त्रीश्वरप्रभत्यधिकारिभिश्च प्रोत्साहिता जैनाचार्यप्रभृतयो नैके विद्वन्मूर्धन्या विद्वन्मनोविनोदकान् लोकोपकारकान् विविधविषयकान् नवीनान् ग्रन्थान् जग्रन्थुः, प्राचीनान् ग्रन्थांश्च व्याख्या-विवरणादिभिर्व्याचख्युः, प्राच्यसाहित्यलेखन-परिरक्षण-प्रथनादौ च विविधप्रकारेण प्रयेतिरे। गायकवाडपाच्यग्रन्थमालाप्रकाशित-पत्तन-जेसलमेरुदुर्गादिपुस्तकागारसूचिपत्रसमीक्षकानां सुज्ञानां किमिव नाम बहु विज्ञपनीयमस्मिन् विज्ञाते विषये ? दुर्लभराजरानसभायां चैत्यवासिवादिविजेत्रा जिनेश्वरसूरिणा सिद्धराजराजसभायां च दिगम्बरवादिकुमुदचन्द्रविजेत्रा वादिदेवमूरिणा तदनुयायिभिश्च विरचिता नैके ग्रन्थास्तत्रास्माभिः सूचिताः ।
सिद्धराज-कुमारपालप्रेरणा । गू रेश्वरसिद्धराज-जयसिंह-परमार्हतकुमारपालभूपालप्रार्थनाप्रेरिताः सुपसिद्ध.
For Private And Personal Use Only