Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना । [३] स्त्री- लक्षणं तस्सुतेन जगद्देवेन सुललितार्याणामष्टशत्या समर्थितं सामुद्रिकतिलकसंज्ञयोपलभ्यते । तत्कृतः स्वप्नचिन्तामणिस्तु प्रसिद्ध: । मन्त्री यशःपालः । अजयदेवस्य मन्त्रिणाऽनेन राजनीतिज्ञेन परमार्हतेन सुकविना निजप्रतिभाप्रकर्ष: प्रादर्शि मोहराजपराजयनामनि नाटके । यदत्रैव गायकवाडप्राच्यग्रन्थमालायाम् ( क्र. ९ ) प्राकाशि । सज्जनपौत्रः । दि. मुनिश्रीचन्द्रकविकृतोऽपभ्रंशभाषायां त्रिपञ्चाशत्सन्धिसङ्कलितः कथाकोशो मूलराज - धर्मस्थान गोष्ठिकप्राग्वाटवंशीय सज्जन सुत कृष्ण सन्तानेन व्याख्यापित आसीत् । मन्त्री बालकविर्जगद्देवः । राजमान्यस्य श्रीश्रीमालकुलीनकोशाधिपयशोधवलसूनोरस्य प्रार्थनया वि. सं. १२२५ (५२) वर्षे पत्तने मुनिरत्न सूरिर्विनिर्ममे ममस्वामिचरितम्, यत् समशोधि कुमारकविप्रभूतिराजसभ्यैः । [ पीटर्सनरि. ३, पृ. ९०-९९ ] सोममन्त्री | एतस्य वचनेन वि. सं. १२५५ वर्षे पूर्णभद्रसूरिणा नृपतिनीतिविवेचनाय जीर्णं विशोधितं पञ्चतन्त्रं डॉ. हर्टलद्वारा प्रसिद्धिमागतम् । मन्त्री जयन्त सिंहः । स्तम्भतीर्थ - पेटलापद्राद्यधिकारिणो मन्त्रीश्वरवस्तुपालसुपुत्रस्यास्यैव प्रेरणया सुकविना जयसिंह सूरिणा विरचितं हम्मीरमदमर्दनं नाटकम्, यदत्रैव गा. ग्रन्थमालायां ( क्र. १० ) प्रसिद्धम् । जैत्रसिंहापराभिधस्यास्यैव च मनोविनोदाय बालचन्द्रसूरिणा रचितं वसन्तविलासमहाकाव्यमत्रैव (गा. ग्रं. क्र. ७) प्रकाशितम् । एतत्पठनार्थमेका प्रबन्धावली वि. सं. १२९० वर्षे उदयप्रभसूरिशिष्येण जिनभद्रेण रचिता ज्ञायते । पद्ममन्त्री । विश्वल (वीसल) देव ( वि. सं. १२९८ [ १३०२]-१३१८ ) राजमान्येन वायवंशोद्भवेन राजभाण्डागाराध्यक्षेण राजविश्वासपात्राधिकारिणा पद्मनाभ्यर्थितो वायटगच्छीयामर चन्द्रकविर्जिनेन्द्रचरितं पद्मानन्दा परसंज्ञकं वीराङ्के महाकाव्यं निर्ममे, यदत्र गायकवाड प्राच्यग्रन्थमालायां ( १८ क्रमाङ्के ) प्रसिद्धम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 482