Book Title: Alankar Kaustubh Author(s): Visheshwar Pt, Shivdutt Pt Publisher: Tukaram Javaji View full book textPage 9
________________ काव्यमाला। - - - श्रीविश्वेश्वरपण्डितविरचितः अलंकारकौस्तुभः। स्वोपज्ञव्याख्यालंकृतः। दत्तस्तन्यरसं कराग्रिमभुवा वक्रान्तरेष्वादरा होर्विक्षेपनिषिद्धकुम्भविचरन्मत्तद्विरेफोत्करम् । अम्बाया धयतोः पयोधरयुगं तिर्यग्मिथः पश्यतो औल्यस्नेहविजृम्भितं विजयते द्वैमातुरस्कन्दयोः ॥ वाग्देवतां द्विरदवक्रमपि प्रणम्य लक्ष्मीधरस्य विदुषश्चरणावुपास्य । भावानलंकरणकौस्तुभगुम्फितान्स्वान्विश्वेश्वरो विवरितुं यतते समासात् ॥ अभिमतकर्मारम्भसमये सदाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितप्रतिबन्धकदुरितनिवृत्तये कृतं मङ्गलं शिष्यशिक्षार्थ निबनाति-दत्तस्तन्येति । करस्य शुण्डाया अग्रिमभुवा पुष्करभागेन स्कन्दस्य षण्मुखत्वेन एकमुखेन स्तनपाने मुखान्तराणा तदलाभकृतवैमनस्यनिवृत्तये तेषु स्तन्यरसदानं भगवतो लम्बोदरस्य च गजमुखतया कुम्भलग्नमदलुब्धभ्रमराणां स्कन्देन बहुभुजतया वारणमिति । परस्परस्नेहवर्णनं तिर्यग्दर्शनं तदवस्थायां बालकस्वभावः । स्कन्दस्य अल्पाच्त्वेऽपि 'भ्रातुायसः' इति द्वै. मातुरस्य पूर्वनिपातः । गणेश्वरगुहयोर्विघ्नविनाशकत्वं प्रसिद्धमेव । तथा च स्मृतिः'आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ॥' तत्प्रसङ्गेन सर्ववाङ्मयरूपिण्या जगदम्बिकाया अपि प्रतिसंधानम् । तदुक्तं वायुसंहिता. याम्-'शब्दस्वरूपमखिलं धत्ते शर्वस्य वल्लभा । अर्थस्वरूपमखिलं धत्ते बालेन्दुशेखरः ॥' अत्रोक्तपरमदेवताविषयकभावध्वनिः प्रधानम्, गणेशगुहयोः परस्परविषयकPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 436