Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 12
________________ काव्यमाला | तदतद्गुणवान्स्याद्व्याघातः सृष्टिसंकरौ चेति । कथ्यन्त एकषष्टि विद्वत्मवरैरलंकाराः ॥ ७ ॥ तत्र 'यत्किचित्काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया वर्णाकृतिगुणाश्रया ॥' इति भरतः । तत्प्रकृतिभूतत्वेन सर्वालंकारेष्वभ्यर्हितत्वादुपमा तावन्निरूप्यत इति तल्लक्षणमाह तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा । तत्र निरूपणीयेष्वलंकारेष्वित्यर्थः । उपमेयोपमावारणाय — एकेति । व्यङ्गयोपमावारणाय — वाच्येति । अनन्वयवारणाय — भिन्नेत्याशङ्कयाह — विद्वत्प्रवरैरिति । तेषां तु विद्वद्देशीयैरेवाभ्युपगमान्निरसनीयत्वान्न तथेति भावः । यद्यपि उद्देशक्रमेणैव विभाग इत्युपमा निरूपणप्राथम्यमर्थादेव सिद्धम्, तथापि प्रथमोद्देश एव किं प्रयोजकमित्याक्षेपमाशङ्कय तत्र नियामकमाह — तत्र यत्किचिदित्यादि । भरतेत्यलंकारशास्त्रस्य प्रामाणिकत्वसूचनम् । अनन्वयादावपि सादृश्यप्रतीतिपर्यवसानं स्पष्टमेव । भङ्गिभेदात्त्वलंकारभेद इति भावः । एवं च भरतशास्त्रेऽपि उपमायाः प्रथमोद्देशे इदमेव नियामकं बोध्यम् । यद्यपि प्रकृतित्वं न वचन - साध्यं तथापि तत्संमतत्वसूचनाय भरतवचनोपन्यासः । लक्षणमिति । लक्षणज्ञानाभावे धर्मिण एव सम्यग्बुद्धावनारोहात्सामान्यनिरूपणानन्तरमेव 'विशेषस्य निरूप्यत्वादित्यर्थः । आहेत्यत्र कारिकाकृदिति शेषः । कारिकायां तत्रेत्यस्य लक्षणान्तर्भावे प्रयोजनाभावान्निर्धारणपरतया योजयति-तत्र निरूपणीयेष्विति । निरूपणं च स्वरूपभेदादिबोधजनक शब्दः । अलंकाराः शिष्यबोधविषयीभवन्त्वित्याकारकेच्छाविशेष्यत्वं विषयत्वरूपेण कृत्यप्रत्ययार्थः । व्यापारानुबन्धिनीं विषयतामादाय प्रकृत्यर्थस्य प्रत्ययार्थे - ऽन्वयः । ' उपमेयोपमापि लक्ष्यैव' इति । चित्रमीमांसामतनिरासायाह — उपमेयोपमावारणायेति । एकपदोपादाने तु तत्र 'चन्द्र इव मुखम् ' ' मुखमिव चन्द्रः' इति वाक्यद्वयबोध्यत्वान्न व्यभिचारः । न चैवमपि व्यभिचारतादवस्थ्यम् । प्रत्येकमेकवाक्यवाच्यत्वसत्त्वात्, वाक्यभेदरहितायामुपमेयोपमायां तु सुतरामेव तथा, तत्रैकवाक्यवाच्यस्वसत्त्वादिति वाच्यम् । उपमेयत्वाभिमतप्रतियोगिकोपमानवृत्तिसादृश्याविषयकज्ञानविषयत्वेन तात्पर्यविषयत्वस्य तदर्थत्वात् । वाच्येतीति । वाक्यार्थज्ञानविषयीभूतेत्यर्थः । तेन लक्ष्यसादृश्यस्यापि संग्रहः । नन्वेवं सति 'उपमेयत्वाभिमतप्रतियोगिकोपमानवृत्ति १. 'निरूपणत्वात् ' क-ग.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 436