________________
काव्यमाला |
तदतद्गुणवान्स्याद्व्याघातः सृष्टिसंकरौ चेति । कथ्यन्त एकषष्टि विद्वत्मवरैरलंकाराः ॥ ७ ॥
तत्र
'यत्किचित्काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया वर्णाकृतिगुणाश्रया ॥' इति भरतः । तत्प्रकृतिभूतत्वेन सर्वालंकारेष्वभ्यर्हितत्वादुपमा तावन्निरूप्यत इति तल्लक्षणमाह
तत्रैकवाक्यवाच्यं सादृश्यं भिन्नयोरुपमा ।
तत्र
निरूपणीयेष्वलंकारेष्वित्यर्थः । उपमेयोपमावारणाय — एकेति । व्यङ्गयोपमावारणाय — वाच्येति । अनन्वयवारणाय — भिन्नेत्याशङ्कयाह — विद्वत्प्रवरैरिति । तेषां तु विद्वद्देशीयैरेवाभ्युपगमान्निरसनीयत्वान्न तथेति भावः । यद्यपि उद्देशक्रमेणैव विभाग इत्युपमा निरूपणप्राथम्यमर्थादेव सिद्धम्, तथापि प्रथमोद्देश एव किं प्रयोजकमित्याक्षेपमाशङ्कय तत्र नियामकमाह — तत्र यत्किचिदित्यादि । भरतेत्यलंकारशास्त्रस्य प्रामाणिकत्वसूचनम् । अनन्वयादावपि सादृश्यप्रतीतिपर्यवसानं स्पष्टमेव । भङ्गिभेदात्त्वलंकारभेद इति भावः । एवं च भरतशास्त्रेऽपि उपमायाः प्रथमोद्देशे इदमेव नियामकं बोध्यम् । यद्यपि प्रकृतित्वं न वचन - साध्यं तथापि तत्संमतत्वसूचनाय भरतवचनोपन्यासः । लक्षणमिति । लक्षणज्ञानाभावे धर्मिण एव सम्यग्बुद्धावनारोहात्सामान्यनिरूपणानन्तरमेव 'विशेषस्य निरूप्यत्वादित्यर्थः । आहेत्यत्र कारिकाकृदिति शेषः । कारिकायां तत्रेत्यस्य लक्षणान्तर्भावे प्रयोजनाभावान्निर्धारणपरतया योजयति-तत्र निरूपणीयेष्विति । निरूपणं च स्वरूपभेदादिबोधजनक शब्दः । अलंकाराः शिष्यबोधविषयीभवन्त्वित्याकारकेच्छाविशेष्यत्वं विषयत्वरूपेण कृत्यप्रत्ययार्थः । व्यापारानुबन्धिनीं विषयतामादाय प्रकृत्यर्थस्य प्रत्ययार्थे - ऽन्वयः । ' उपमेयोपमापि लक्ष्यैव' इति । चित्रमीमांसामतनिरासायाह — उपमेयोपमावारणायेति । एकपदोपादाने तु तत्र 'चन्द्र इव मुखम् ' ' मुखमिव चन्द्रः' इति वाक्यद्वयबोध्यत्वान्न व्यभिचारः । न चैवमपि व्यभिचारतादवस्थ्यम् । प्रत्येकमेकवाक्यवाच्यत्वसत्त्वात्, वाक्यभेदरहितायामुपमेयोपमायां तु सुतरामेव तथा, तत्रैकवाक्यवाच्यस्वसत्त्वादिति वाच्यम् । उपमेयत्वाभिमतप्रतियोगिकोपमानवृत्तिसादृश्याविषयकज्ञानविषयत्वेन तात्पर्यविषयत्वस्य तदर्थत्वात् । वाच्येतीति । वाक्यार्थज्ञानविषयीभूतेत्यर्थः । तेन लक्ष्यसादृश्यस्यापि संग्रहः । नन्वेवं सति 'उपमेयत्वाभिमतप्रतियोगिकोपमानवृत्ति
१. 'निरूपणत्वात् ' क-ग.